पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २०३ ) मध्ये ब्रह्माणमाधाय क्रमशस्तान समर्चयेत् । इन्द्रः सुरभितृतः स्याद्यमः पुष्पेण मोदते ॥ ५ ॥ वरुणो धूपतृप्तःस्यात् सोमो दीपेन तृप्यति । ब्रह्मा तु सञ्चैतेश्च पूर्णकुम्मैश्च तण्डुलैः ॥ ६ ॥ पयोदधिघृताभ्यक्तानू पिण्डान् शाल्योदनान हितान् । कुक्कुटाण्डप्रमाणांस्तान पञ्चषांश्च सुयोजयेत् ।। जलसम्प्रेक्षणञ्चैव स्वस्वमन्त्रैर्विधीयते ॥ ७ ॥ ओदीर्घायुः सुमङ्गला च इन्द्रदिग्देवेभ्यः स्वाहा ॥ ओचिरं तिष्ठतु दीर्घायुयम्यदिग्देवेभ्यः स्वाहा || ओभद्रो वरुणदिग्देवेभ्यः स्वाहा ॥ ओश्रेयः सौम्य दिग्देवेभ्यः स्वाहा || ओं पुत्रपौत्रवृद्धिः स्याञ्चतुर्मुखेभ्यः स्वाहा || अङ्कताकङ्ककताश्चैत्र कुन्द्रुपुत्रास्तथैव च । वायसा ब्रह्मपुत्राश्च वलिं गृह्णन्तु ओन्नमः ॥ ८ ॥ प्रणम्य मन्त्रेणानेन दूरे स्थित्वा निरीक्ष्यताम् । मथमग्रस्तपिण्डेन तत्र विद्याच्छुभाशुभम् ॥ ९ ॥ ऐन्द्रे पुत्रविवृद्धिः स्याद्याम्ये भर्तृविनाशनम् । वारुणे कुलनाशःस्यात् सौम्ये स्यात् पुत्रपौत्रकम् || शुभं ब्रह्मे बहुविधं विनिश्चिय विनिर्दिशेत् ॥ १० ॥ पुमान्नाममयःस्थूलः सर्वेषां प्रियदर्शनः । बलिभुक् प्रथमं ग्रासि सर्व्वस्मिन्नतिदोपदः ॥ ११ ॥ सर्व्वत्र शुभकार्ये च युद्धे बन्धविमोक्षणे । इदं विधानमुद्दष्टं सममेव पुरातनैः ॥ १२ ॥ इति वायसबलिविधिः । WEIM -000