पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २०१ ) लये बुधांशकस्थ श्वेदिन्दुशार्कबुधोदये । बुधवारेऽस्य होरायां योगो मोहविनाशनः ॥ ६५ ॥ अनुक्ता ये ग्रहास्ते च स्वात्युच्चोदयगाःयदा | स्ववारे च स्वहोरायां योगाः स्युः ज्ञानसाधकाः ॥ ६६ ॥ वारनक्षत्रयोगाःये शुभास्तत्र दिनाधिषे । लग्नगे तस्य होरायां योगो मूगप्रभाषकः || ६७ ॥ वाणीं गणेशञ्च गुरुभ्र भक्त्या सम्पूज्यमाना बलिभिः प्रभूतैः । कृताभ्यनुज्ञे गुरुणारभेत शास्त्राणि पूर्व्वाभिमुखःकुमारः ॥ ६८ ॥ - यथोक्तयोगसद्भावे नात्र दोषं विचारयेत् । इन्दोवरे पराहे च विद्यामुक्तिविधीयते ॥ ६९ ॥ इत्यध्ययनविधिः । -000 समावर्त्तविधिर्नाम स्नानरोमछिदादयः । विद्यान्ते च बतान्ते च विधिरेष विधीयते ॥ ७० ।। आदिससौम्यसावित्र्यमत्र तिष्योत्तरत्रयम् । रोहिणीश्रवणपुष्या सौम्यवारोदयादयः ॥ ७१ ॥ द्वितीया च तृतीया च पञ्चमी सप्तमी तथा । दशमी द्वादशी शस्ता विशेषेण त्रयोदशी । नृपाणां पूज्यते षष्टी वैश्यानां दशमी तथा ॥ ७२ || इति समावर्त्तनविधिः । एष पोडशिको भूत्वा प्रविश्य गृहमेधिताम् । इष्टापूर्त्तविधानच गोदानच समाचरेत् ॥ ७३ ॥ २६