पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २०० ) हस्तस्तिष्यस्तथादिसः सङ्गीते सौम्यभं शुभम् ।। ५२ ॥ सापशाकुनिकज्ञाने वेदशास्त्रेषु रोहिणी । वैष्णवं चौरमायादौ चित्रा स्याचित्रकर्म्मणि ॥ ५३ ॥ धर्म्मशास्त्रेषु विस्वाद्यास्तिस्रस्ताराश्च रेवती । योगशास्त्रेऽब्धिमूलार्काः सतर्कसमये शशी ॥ ५४ ॥ अश्विनी रोहिणी सौम्यस्तिष्यो हस्तादिपञ्चकम् । ज्योतिःशास्त्रे शुभं वैद्ये स्वातिहस्तः पुनर्वसुः ॥ ५५ ॥ वासवो रेवती सौम्यो रोहिणी तिष्यमित्रभम् । अदितिश्च तथा हस्तः शब्दशास्त्रेषु पूजितः ॥ ५६ ॥ गणिते रेवतीहस्तपुष्यमित्रेन्दुशङ्कराः । धात्रादिपञ्चकं प्रोक्तं पुराणेषु पुरातनैः ॥ ५७ ॥ आदिसवैष्णवस्वातिहस्ताश्विपरमेष्टिनः । उत्तराणां त्रयं पुष्यं वास्तु शास्त्रे सुपूजितम् ॥ ५८ ॥ अनुक्तेषु च शास्त्रेषु विधादुक्तानुसारतः । अश्विनी पौष्णहस्तास्तु सर्व्वशास्त्रेषु पूजिताः ॥ ५९ ॥ हस्तक्षे तु बुधस्यांशे वर्त्तन्ते ज्ञेन्दुभास्कराः | बुधवारे च तल्लग्ने योगःसारस्वतो मतः ॥ ६० ॥ चन्द्रार्कज्ञदिने वारनाथे लग्ने बुधांशके । हस्तर्क्षस्य यदा योगस्तदा वागीश्वराह्वयः ॥ ६१ ॥ स्वात्युच्चे लग्नगो भानुः ज्ञसितौ दृपमीनगौ । वर्गोत्तरगतौ यद्वा योगो वागीश्वराह्वयः ॥ ६२ ॥ बुधोत्तरे गुरोरंशे केन्द्रगा झार्कभार्गवाः । त्रयोदश्यां यमे लग्ने योगो बुद्धिमबोधकः ॥ ६३ ॥ कर्की पञ्चमभागस्थे गुराबुदयगे तदा । गुरोवरेढ्यहोरायां योगो जाड्यहरो मतः ॥ ६४ ॥ १ रोहिणीसौम्य | २ युतानुसारतः |