पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६६ ) उत्तराणां त्रयं पौष्णं रोहिणीञ्चैव मध्यमम् । वसुवारुणमूलानि शुभदानीति केचन ॥ ४१ ॥ मूलं वशिष्टमुनिना शास्त्रारम्भे निराकृतम् । पर्वरिताष्टमी पष्ठी द्वादशी प्रतिपत्तथा ॥ ४२ ॥ गर्हिता विबुधैःकेचित् पूर्णमिष्टतमा विदुः । केचिन्नेच्छन्ति निपुणाः सप्तम च त्रयोदशीम् ॥ ४३ ॥ शुभदुष्टः शुभांशस्थश्चन्द्रस्तत्रापि दोषनुत् । मन्दमाहेययोर्निन्द्याद्वारवर्गोदयादयः ॥ ४४ ॥ मध्यमाः रविशीतांश्वोः शेषाणामुत्तमाः स्मृताः । चरस्थिरोभयाःपङ्ख्या मध्यमाधमपूजिताः । अष्टमं शुद्धमिच्छन्ति केचित् पञ्चममेव वा ॥ ४५ ॥ त्रिपडायगताः पापाः शुभाः सौम्याश्च कण्टके । शस्त्रशिक्षाहिता मित्रविष्णुत्रयरवीश्वराः ॥ ४६ ।। गुरुभागववारायाः विदोषास्तिथयोऽपि च ॥ चित्राश्विरविशक्राइच परघातविधौ शुभाः । मूलाश्विपितरश्चापशिल्पेभौमार्कवारयोः ॥ ४७ ॥ कुन्ताभिक्षुरिकाभ्यास वाजिवारणविग्रहे । मल्लाङ्गकारशिक्षासु महानसविधौ तथा ॥ ४८ ।। पौष्णश्रवणरोहिण्यां सौम्यं वायूत्तरत्रयम् । रुद्रतिष्ये तु शुभदे सौरभ्यकरणेषु च ॥ ४९ ॥ ओश्वनाचावीशक्षासु गजशिक्षासु सोमभम् । तयोरारोहणे पौष्णं हरिर्ब्रह्मोत्तरत्वयम् ॥ ५० ॥ खरोष्ट्रमहिषादीनां शिक्षने च यमात्त्रयम् । हयानां वारुणाविन्यौ व्यवायेषु शुभदौ ॥ ११ ॥ 'भेरितालादिशात्रेषु भरतेषु विशेषतः । १ फालादि ।