पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६१ ) पौष्णा दितीन्दुहस्ता त्वष्टावायव्यविष्णवम् । रोहिणीचैत्रतिष्येव वारुणा चोत्तरत्रयम् ।। १२९ ॥ श्रविष्टा च तथा हेते षोडशानासने शुभाः | भोक्तुर्नवत्वे सम्प्रोक्तास्ते च नूतनभोजने ॥१३०॥ मघा विशाखा मूलाच शिष्टा नेष्टास्त्रयोऽपिच । शिष्टे तु भरणी कैश्चिच्छुभदृष्टाच्छुभाः स्मृताः ॥ १३१ ॥ पक्षच्छिद्रञ्च विष्टिश्च रिक्ताञ्चैव विवर्ज्जयेत् । शुभानां विगतेन्दूनां वारासाद्याः सुशोभनाः || १३२ ॥ वृषचापघटाः कन्यातुलानक्रमृगाधिपाः । कर्विकत्वे ते शुभाःप्रोक्ता नवत्वे भोक्तृभोज्ययोः ॥१३३॥ कुजक्षेत्रञ्च मीनञ्च न कदाचिच्छुभप्रदम् । मध्यमं मिथुनं मोक्तं राशीनां केवलं फलम् ॥ १३४ ॥ निन्दिता भोजने जन्मविपत्प्रसारिमृसत्रः । ग्रहाःकम्मंगताः सर्व्वे शिशो:माणविनाशकाः ॥ १३५।। कुजोऽष्टमे शशी लग्ने सप्तमे सितचन्द्रजौ । नेष्टौ बुधमहीपुत्रौ तथैवाष्टमधर्म्यगौ || १३६ ॥ भुक्तौ शुभकरो योगो जीवे केन्द्रे त्रिकोणगे | त्रिपडायास्तथैकास्मिन क्रूरे बलसमन्विते ॥ १३७ ॥ इन्दुस्सत्कर्मकर्ता] चेच्छुभांशे गुरुबीक्षितः । शुभो यदि बली केन्द्रे योगोऽयं बहुसिद्धिदः ॥ १३८ । शुक्ले पक्षे शुभांशस्थे चन्द्रे जीवे त्रिकोणगे | शुक्रे च कण्टके लगे योगोऽयञ्च मृतोपमः ॥ १३९ ॥ नानाविधैर्मङ्गलतूर्यनादैः पुण्याहघोषेण च मोदमानम् । बालं शुचिस्नानविभूषिताङ्गं १ त्याष्ट्रावासवद्यविष्णम् ।