पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६० ) शुभार्ती दाइविच्छेदे कर्णवेधविधिर्यथा ।। ११९ ।। इति कर्णवेधविधिः । -000 उपनिष्क्रमणं नाम ग्रहात्मथमनिर्गमः । आयुस्तेजोबलोद्दीप्तेविधिरेष विधीयते ||१२० ॥ चतुर्थे मासि भूदेवास्तृतीये वसुधाभुजः । विशोऽन्नमासने कुर्युः गुद्रास्तु द्वादशेऽहनि ।। १२१ ॥ मित्रोत्तरत्रयतुरङ्गमृगश्रविष्टा राधाविधावमधुजिद्भगनाः प्रशस्ताः || कन्यातुलानिमिषटश्चिकराशयश्च शस्ता विदोपतिथयोऽपि च सौम्यवाराः ॥ १२२ ॥ भूरिपुष्यनिकरं सतोरणं तोयपूर्णकलसोपशोभितम् । धूपगन्धवलिपूजितं द्विजं मोक्तवेदमिह मण्डपं शुभम् ॥ १२३॥ मातुलो वा पिता बालं शुचिस्नानविभूषितम् । मण्डपं तदुपानीय धान्यपद्मे निवेश्य च ।। १२४ ॥ सूर्य सन्दर्शयेत्तस्मिन् सादरञ्च प्रणामयेत् । अथ दुर्व्वाक्षतैः रवहेमाम्भोभिश्च सेचयेत् || १२५ ।। इत्युपनिष्क्रमणविधिः । 0 अन्नेन स्फी लोकस्त्रिवर्गश्च मवर्त्तते । भोक्तृभोज्यानवत्केतत् प्रवक्ष्ये लक्षणं लघु ॥ १२६ ॥ ब्रह्मक्षत्रिययोः शस्ता युग्मा मासाः शुभप्रदाः । अभिष्टा विषमा मासाः भोजने वश्यशुद्रयोः ॥ १२७ ॥ पञ्चशदिवसात्रघ्नात् पश्चात्चिहतपष्ठिकात् । अशे चोत्तमा मुक्तिर्मासकालस्तु सावणात् ॥ १२८ ॥