पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जन्मतो दशमे चाहि द्वादशे वाथ पोडशे ॥ १०९ ॥ सप्तमे मासि वा कुर्य्यादष्टमे वा विचक्षणः | उक्तकालव्यतिक्रान्तावायुग्माव्देऽपि कारयेत् ॥ ११० ॥ पुष्यादितिश्रवणसोमशिवश्रविष्टाः तिथ्योत्तरत्रयसहस्रकराः प्रशस्ताः । पर्व्वाष्टमीविरहितास्तिथयो विरिक्ता विष्टीतराश्च शुभदाः शुभवासराद्याः ॥ १११ ॥ वृषवर्जाःस्थिराःसर्व्वे न शुभा मकराजहौ । मध्यमा अवशिष्टास्तु शोभनाः कर्णवेधने | रुन्धारिव्ययगोनेष्टो गुरुःशेषेषु शोभनः | सुतरन्ध्रगताः सौम्याः नेष्टाः स्युः कर्णवेधते ॥ ११२ ॥ षट्सप्ताष्टमगः शुक्रो न शुभोऽन्यत्र शोभनः । इन्दुस्तृतीये पुत्रस्त्री धर्मकर्म्मायगः शुभः ॥११३।। विशुद्धमष्टमस्थानं पापाश्च त्रिपडायगाः । लमं वृहप्पतिक्षत्रं शोभने कर्णवैधने ।। ११४ ॥ अभ्यर्च्य दैवज्ञभिषग्वरेण्यौ समङ्गलं शङ्खमुदङ्गनादैः । यथाक्रमं दक्षिणवामकर्णौ पुसखियोस्तौ विपरीतवेध्यौ ११५ कुटजं नरवीरञ्च साङ्गलीं चित्रकं तथा । अपामार्गोऽश्वगन्धा च शुष्कं संचूर्ण्य तैलयुक् || ११६ ॥ लेपयेत् कर्णवल्यन्तु मांसलावस्थिरा भवेत् । इदं सचैत्र निर्दिष्ट मूनावयवपूरणे ॥ ११७ ॥ अश्विनीहस्तमैत्रेषु शुभवारांशकोदये । सम्पूर्णमण्डले चन्द्रे दापयेच्छृतिभूषणम् ॥ ११८ ॥ संक्षा लोके पशूनाञ्च दाशानाञ्च विधीयते । १ लोम ।