पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तापसी दशमे मासे निराहारोऽक्षिमलिनम् । उद्वेदनञ्च गात्राणां पीत्तं रक्तमथोदनम् ॥ ४७ ॥ घण्टा पताका पिष्टोत्था मत्स्यमांससुरासत्रम् । सौम्यायां दिशि मध्याह्ने बलियेभिःसमाहरेत् ।। ४८ ।। बलिमेकादेशे मासे ग्रही गृह्णाति राक्षसी । तचिह्नं नेत्रयोरन्धं तस्य नैव चिकित्सितम् ॥ ४९ ।। चपला द्वादशे मासे वासःस्वासश्च चेष्टितम् । कुल्मापपुष्पदग्धान्नतिलचूर्णैविधानवित् ॥ ५० ॥ माहेन्द्रदिशि मध्याहे सप्तरावि बलिं हरेत् । एताः स्युमसिकं ग्राह्यं पूतनापदपूर्वकात् ॥ ५१ ॥ द्वितीये वत्सरे वालं ग्रही गृह्णाति यातना । पतनं रोदनं दाहो निराहारोऽक्षिमीलनम् ।। ५२ ॥ . मत्स्यमांसं तिलं मद्यं गुलं स बोलिका दधि | कुल्माषलाजागन्धादिस्तैः माच्यां वलिमाहरेत् ॥ ५३॥ स्नानं पञ्चदलैर्धूप केशगोदन्तगोक्षुरैः । तृतीये वत्सरे वालं ग्रही गृह्णाति रोदनी ॥५४॥ विन्मूवसक्तसंमिश्रज्वरो हस्तस्य कम्पनम् । मरोदनं मुहुर्गात्रं पद्मकेशरसन्निभम् ।। ५५ ।। गुलोदनं तिलं पूपं कुल्माषं स्त्रिन्नफल ग्रूपम् । दघिसक्तुफलं लाजा प्रतिमाशालिपिष्टजा || ५६ ।। एभिःस पुष्पगन्धाद्यैः प्राच्यां दिशि बलिं हरेत् । स्नापयेत् पञ्चपचैस्तु धूपैराजीफणित्वचा ॥ ५७ ॥ चतुर्थे चटकासोमो ज्वरःसर्व्वाङ्गसादनम् । अवीक्षणं मन्दाहारो वामपादस्य कम्पनम् ॥ ५८ ।। १ दध्यन ।