पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८२ ) गोगन्धो मधुगन्धो वा विन्मूत्रश्रवणं तथा ॥ ३५ ॥ जपामियगु पललं कुल्माषं शाकमोदनम् । क्षीरञ्च पिण्डकं दीपं दत्वा प्राच्यं वलिं हरेत् ॥ ३६ ॥ मध्याहे पञ्चपत्रेण स्नानं धूप्येत सर्पपैः । चतुर्थी पिङ्गला गात्रशोपणं दारुणो रवः ॥ ३७ ॥ विश्रम्भेन पयःपानम्पूतिगन्धः सिता तनुः । भुजस्य कम्पनं तस्याश्चिकित्सा न विधीयते ॥ ३८ ॥ पञ्चमी लवना गात्रसादनं मुखशोषणम् । श्रद्धया पायसम्पानं पीतवर्ण मरोदनम् । मत्स्यमांशान्नशाकाद्यैः पिष्टभेदैवलिं हरेत् ॥ ३९ ॥ मध्याह्ने दक्षिणाशायां पण्मासे पङ्कजी ग्रही । तच्चेष्टारोदनं कुक्षिशूलनं विक्रमस्वराः ॥ ४० ॥ शिखिकुक्कुटमेषाणां मांसं सक्तुकुलत्थकम् । मांसोदनं सुरापुष्पगन्धादिस्तैर्बलिं हरेत् ॥ ४१ ॥ शीतला सप्तमे मासे 'निराहारोऽङ्गमाटनम् | दन्तखाद्याद्यति गन्धः समापान्नसुरातिलैः ॥ ४२ ॥ पद्मादिपुष्पकुलमापपिष्टशाकैर्बलिं हरेत् । अष्टमे यमुनामोहस्तनितं मुखशोषणम् ॥ ४३ ॥ स्फोटिकाः सर्पपाकारास्सर्व्वगात्रेषु कम्पनम् । चिकित्सा नच कर्त्तव्या नवमी कुम्भकर्णिका ॥ ४४ ॥ अश्रद्धया पयःपानं तच्छाईदरुिणो ज्वरः । रोदनं पाटलो गन्धी मांस मत्स्यसुरापयः ॥ ४५ ॥ कुल्मापपन्नं पललं गन्धपुष्पञ्च दापयेत् । ऐशानीं दिशमाश्रिय मध्याहे बलिमाहरेत् ॥ ४६ ॥ १ नीराहारातमाटेनम् । -