पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १७४ ) षड्विंशतिरिमे दोषाः दोषेषु बलवत्तराः । अवश्यं परिहर्तव्याः सर्व्वमङ्गलकमणि ॥ ८९ ॥ इति पड्विंशति दोषनाम । ये दोपास्तिथिनक्षत्रवारराशिग्रहोद्भवाः । ते जीवदृष्टाःक्षीयन्ते मुनिनामारसैन्यवत् ॥ ९० ॥ करणञ्च ततस्तारा तिथिहोरा ग्रहोदयः । ग्रहाश्चेति बलीपक्सा पादवृद्ध्या वलमदाः ॥ ९१ ॥ स्ववर्गस्थाःबलाढ्याश्च शुभाः केन्द्र त्रिकोणगाः | सम्पूर्णदर्शनाः सौम्याः दृष्टिदोषविनाशकाः ॥ ९२ ॥ दुर्व्वला बहवो दोपा बलिभिःकतिचिद् गुणैः । हन्यन्ते योजयेत्तस्मादल्पदोषगुणाधिकम् || ९३ ॥ एषु सर्वेषु दोषेषु शुभकर्म्म नचाचरेत् । पराभिन्नारकर्म्मदौ दोषाः सर्वेऽपि सिद्धिदाः ।। ९८ ॥ इति दोषप्रवादः । 00 इति दोषशुद्धिविधानं नाम द्वाविंशोऽध्यायः । त्रयोविंशोऽध्यायः । अतःपरं गर्भदशाविधानं प्रणीयते तत्र च सङ्गृहीतम् । आसेवनं पुंसवनं तथैव सीमन्तकर्म्मापि यथाक्रमेण ॥१॥ उपचये नरराशिसमाश्रिते हरिणलक्ष्माण भौमनिरीक्षिते ।