पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १७१ ) सच ज्ञानधनायुक्तः प्रथमोऽर्कस्फुटो भवेत् । चन्द्रस्फुटसमा एते चाष्टौ दोषाय कल्पिताः ॥ ६७ ॥ भौमाच्छोध्या भवेयुश्चेत् सिंहस्याष्टादशांशकाः । तद्युक्ततारकं रक्तस्फुटाख्यं न शुभावहम् ॥ ६८ ॥ तत्तद्वारे समारभ्य भुञ्जीत क्रमशो ग्रहाः । कलाश्चतस्रःपादोनं मयेकं प्रतिवासरम् ।। ६९ ॥ तेषु सौम्यो गुरुःसौरी क्रमादर्द्धमहारकः । यमदण्डश्च गुलिकस्तेषां भुक्तिं विवर्जयेत् ॥ ७० ॥ इत्यर्द्धप्रहारयमदण्डगुटिकाः । • 000 नमवरनगनौगी वायुकाया नगज्ञा नरफलननगनारी दायरेखा नराणाम् । घटचटनटचाटी नीरवारानिरत्नं नयनृपमयतोयं वैरिनागा इति स्युः ॥ ७१ ॥ सङ्ख्याकलानन्तुरगादिभानामेतासु नाडीषु गतासु तत्र । कलाश्चतस्रो विषनामधेयाः कुर्य्याद्विपञ्चात्र शुभं न कुर्य्यात् ७२ इति नक्षत्रविषघटिका । 000 कन्याजमीनधनुषां प्रथमो भुजङ्गो गोसिंहतौलिघटमध्यम एवं शृद्धः । गुग्मालिकार्कमकरान्यगतो वराह- त्र्यंशान् वदन्ति विषमत्र शुभं न कुर्य्यात् ॥ ७३ ॥ इति लग्नविषघटिका । •000- १ भुञ्जीर भुञ्जितम् । २ नाभी । ३ हर ।