पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १७० ) समागता । नक्षत्रतारकातुल्यतिथिर्यत्र तद्दिनं हतकार्य्याख्यं न तत्र शुभमाचरेत् ॥ १८ ॥ रविन्दुस्फुटयोग चतुर्द्धा तत्र निक्षिपेत् । प्रियं दानं जयं दीपं नवभिस्तानि भाजयेत् ॥ यद्येक मापे शून्यं स्यादर्जनीयं हि तद्दिनम् ।। ५९ ।। इति चतुर्दोषः । - 000. रविन्दुस्फुटयोग सप्तधा विनिवेशयेत् । मानं चापं धनं रूपं दान देयं नेयानिति ॥ ६० ॥ संयोज्य सारसम्भक्ते शून्यं यदि विवर्जयेत् । एकमप्यत्र शून्यं चैत्र तत्र शुभमाचरेत् ॥ ६१ ॥ इति सप्तदोषः । -000 ताराग्रहस्य वैकस्य विभक्त भवनद्वये । तिष्टतश्चन्द्रसूय्यौ चेव्यतिवातःसराशिजः ॥ ६२ ॥ स्फुटे कमलिनीबन्धौ नीङ्गजन्मधनं क्षिपेत् । धूमस्फुटः सविज्ञेयः समचक्राद्विशोधितः || ६३ || व्यतिपातो भवेत् सोऽपि नागलोकसमायुतः । परिवेश्यो भवेदेषः पुनश्चक्राद्विशोधितः ॥ ६४ ॥ भवेदिन्द्रधनुस्तत्र निक्षिपेन्नगतोटकम् । सकेतुर्नागपुत्राङ्के क्षिपेनिर्घातको मतः ।। ६५ ।। संचनागकुलैर्युक्तं परिघः परिकीर्त्तितः । नागलोकयुतः सोऽपि वाज्ञादण्डोऽभ्युदीरितः || ६६ ॥ इत्यष्टमदोषः । -000- १ नयानिति । २ पव । ३ जीवाशदण्डो ।