पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६६ ) विशुद्धमण्डलादेते चन्द्रस्फुटसमा यदि । रश्मिदोषांश्च यांस्तेषु शुभकर्म्मणि नाचरेत् ॥ ४९ ॥ इति रश्मिदोषः । वामेऽक्षिण मृगशीर्षञ्च दक्षिणेऽक्षणि हृद्रभम् । पृच्छे च मूलं मत्स्यस्य लिखेदन्यानि पार्श्वयोः ।। ५० ।। अन्योन्याभिमुखर्क्षस्थौ यदि भानुनिशाकरौ । तन्नक्षत्रयुगं बेधो न तत्र शुभमाचरेत् ॥ ५१ ॥ त्रिंशत् त्रिंशदकला भानोः सङ्क्रान्तावभितस्यजेत् । पञ्च पञ्च दिनान्येव जीवेन्मूढे समन्ततः ॥ ५२ ।। चिरं मुह्यति चेच्छुक्रः सप्तभान्यमितस्यजेत् । गुरोः सप्तमराशिस्थस्साजः शुक्रस्तु मूढवत् ॥ ५३ ॥ त्रिशिखं पूर्व्वतः शुलं त्रयं पश्चावत्रिदण्डकम् । लिखेन्द्रोकाष्टकान्तीर्य्यक तत्र भानुस्थकारकम् ॥ ५४ ॥ मध्यमस्य त्रिशूलस्य मध्येऽन्यस्याथ सव्यतः । गणयेत्रच शूलस्थास्तारा नेष्टा पराःशुभाः ॥ ५५ ॥ इति सूर्यशूलम् । -000 अर्द्धचन्द्राकृतिं कृत्वा तत्र कोष्टश्च मध्यमे । त्रिशूलं त्रिशिखं तेषां मध्यापार्श्वद्रये ततः ॥ ५६ ॥ त्रीं स्त्री विन्दुत् विलिख्यात्र मव्यशूलस्य मध्यमे । न्यस्यार्कस्थितभं सच्याद् गणं शूलगतं सजेत् ।। ५७ ॥ इति चन्द्रशूलम् | १ नव । २२