पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६५ ) सुविचार्य्य ततः कार्य्यमारभेत विचक्षणः ॥ १६ ॥ विशाखादित्रयं याम्यशशाङ्कःशङ्करो मया । तिथयः शैलवेदार्का निन्दिता रविवासरे ॥ १७ ॥ विशाखादिद्वयं वहिराध्यादिद्वितयं मघा । तिथयश्चाङ्गरुद्राख्याः नेष्टा वारे हिमत्विषः ॥ १८ ॥ विष्णुवारुणदेवेन्द्रवासवाजकपालिनः | शराद्रिछिद्रदिक्सङ्ख्याः तिथयो न शुभाः कुजे ॥ १९ ॥ वसुयमभयमूलान्याजभैरचा न्द्रिवारः तिथिभिरभिदिशाग्निद्रेककैश्चावयोगः । जलधिशशिभगार्द्रारोहिणीभैर्युतो वा तिथिभिरृतुनवाष्टोतो जीववारः ॥ २० ॥ पुष्यादिभत्रयं शुक्रो विशाखादिद्वयं विधिः । दिछिद्राद्विद्विनागाख्याः स्वास्तिथयो न शुभाःसिते॥२१॥ आर्ग्यमादित्रयं पूषा श्रवणाप्यपुनर्व्वसुः । तिथयः शैलनागाङ्गरुद्राख्या न शनौ शुभाः ॥ २२ ॥ इत्यवयोगः । HT भानुभानुजभौमानां वारवर्गाश्च पापकाः । तेषां तु शुभदृष्टस्य भानोर्वारो न दृष्यते ॥ २३ ॥ षट्वेदनागाङ्गदशाष्टभानुविकूदश्रभान्वब्धिकराह्वयाश्च । विदभ्युरेतास्तिथयोऽग्निीति क्रमेण मेषादिगते खरांशौ ||२४|| भान्वादिवारेषु कृशानुचित्रा ब्रह्मान्त काश्रवणान्सयुक्ताः । वाणाक्षिपूर्णे चलकामपष्टीभुजङ्गमाख्यास्तिथयो विषाख्याः॥२५॥ इति विषयोगः । १ खै | २ षट्वेग |