पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थे जन्मघटिकस्ततो लग्नं प्रसाधयेत् । ततो ग्रहं परिज्ञाय नेयं दायदशाफलम् ॥ २६२ ।। अजमकर तुलाकुलीरकन्यास्थित भगनाश्चतुरङ्गुलीषु पड्या | इह गणयेदधिरूढवर्गराशौ प्रभृति भवे नवमर्शकं हि यावत् २६३ यामस्य पूर्व्वभागश्चेद् विलोमात्पञ्चराशिषु । क्रमात् पञ्चषु चान्तश्चेद् यामस्सैप्तार्द्धतोऽपरे ।। २६४ ॥ पादं द्विगुणितं लोकयुक्तछायाविशोधितम् । भाजकस्थेन शुद्धार्के भाजिते घाटकादयः ॥ २६५ ॥ तत्रार्कमुक्तिं निक्षिप्य लग्नभुक्तिं विंशोधयेत् । अशोध्यनीलनीतिभ्यः क्रमेणाभ्यस्य भाजयेत् ॥ २६६ ।। वर्त्तमानस्य लग्नस्य सिद्धभोगविलिप्तिभिः | लब्धं भांगादिकं तच्च सवर्णीकृस कोविदः ॥ २६७ ॥ अन्तकेन विभज्याप्तमृक्षशेषं चतुर्गुणम् । तेनैव भाजयित्वाथ लब्धं पादो विधीयते ॥ २६८ ॥ भूयोभ्यासवशादेतत् साधयेदैवचिन्तकः | "भक्ष्याकारविकल्पाभ्यामूँहस्तत्र विधीयताम् || २६९ ॥ इति नष्टकादेशः । -000- यदिकण्टकवर्त्तिनःशुभाःसूर्य्यदिवैकादशवेश्मगा विलग्नात् । धनवद्गृहमादिशेत्तदानीं द्वारं स्वदिशि ध्रुवं वदेद्विधिज्ञः॥ २७० ॥ यस्मिन् भागे वेश्मनः सन्ति सौम्याः तत्तद्रव्यं संश्रयस्तत्र वाच्यम् । १ चान्तेस्वेद | २ सह्यार्द्धतोत्तरे | ३ कृत्यको । ४ भ्यासमसी । ५ भक्ष्याचाभ्य | ६ मुपास्तत्र | ७ द्वारश्च ।