पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १५४ ) तुल्यःस्तेनस्तेन निर्देश्य एत्र ।। २५१ इति नष्टलाभादेशः । तत्कालिकस्फुटं लग्नं कूर्य्यालितामयं बुधः । गोसिंहौ दशभिर्गुण्यावष्टीभर्मिथुनाष्टमौ ॥ २५२ ॥ सप्तभिश्च तुलामेषौ मृगकन्यौ च पञ्चभिः । अनुक्ता राशयःसर्वे गुणनीयाः स्वसङ्ख्यया ॥ २५३ ॥ तत्र स्थितग्रहाणाञ्च गुणकारैर्विवर्द्धयेत् । जीवे दश कुजे चाष्ट शुक्रे सप्त विनिर्दिशेत् ॥ २५४ ॥ रवौ शशिनि साम्ये च रविपुत्रे च पञ्चभिः | तदवस्तविमं राशि सप्तभिर्गुणयेत्ततः ॥ २५५ ॥ नच देयाश्चरे लग्ने विशोध्याः द्विशरीरके । स्थिरेण देयाःनोशोध्या इति व्याचक्षते ऽपरे ॥ २५६ ।। सम्प्रदायाद्वयं ब्रूमो लग्नद्रेष्काणनिर्णयम् । आदौ दद्यात्सजेदन्त्ये मध्येनायं विधिःस्मृतः ॥ २५७॥ तत्तविधनशेषेण तत्तन्नक्षवमादिशेत् । के चिञ्चिधनशेषेषु चराद्युक्तविधि जगुः ॥ २५८ ।। कलत्रपुत्रमित्रारिभ्रातॄणां स्थानसङ्ख्यया । एकोनराशयस्तत्र देयास्तत्तारकागमे ।। २१९ ॥ तदवस्तोदितं राशि चतुर्धा विनिवेशयेत् । दशाष्टसमपञ्चलास्ते भवन्ति यथाक्रमम् । नव देया विशोध्याश्च प्रत्येकं तत्र पूर्व्ववत् ।। २६० ।। वत्सरा ऋतवो मासाः पक्षौ चेति पृथक् पृथक् । ज्ञेयाः स्वमानशेषेण प्रथमेऽवैव राशिके || २६१ ॥ द्वितीये तिथ्यहोरात्रं तृतीये मण्डले भवम् ।