पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यदा पृच्छेत् पृष्टा जललुलितपा निःस्पृशति वा यदा सान्द्रं सद्यः मकिरति तदाम्भो जलधरः॥ १६६॥ तोयासन्नस्तोपकार्योन्मुखो घा पृष्टा चेत्स्याच्छंस मनोऽम्बुसंज्ञाम् । तोयार्थानां प्रश्नकाले श्रुतिर्वा यस्मिन् वाच्यं तत्र निर्देश्यमम्भः || १६७ ॥ भानोःशुद्धस्फुटे चन्द्रभागालोकमुपक्षिपेत् । मण्डलात्तं समुद्धय शिष्टं वायुस्फुटं वदेत् ॥ १६८ ॥ पदेन्दुस्फुटतुल्पोसौ तत्र जीवशराहवः | यदि च स्युस्तदालोके वातचक्रं विजृम्भते ॥ १६९ ॥ गतचैत्रादिकान्मासान् दिनीकृस तिथि क्षिपेत् । ततो नोतिभृतांस्ताराः स्थितं भवति लिप्तिका ॥ १७० ॥ तत्र प्रहाणां सर्वेषां क्षिपेच्छुद्धस्फुटानपि । अयं पिण्डस्फुठो नाम भानुस्थानादिमो भवेत् || १७१ ।। विशोध्य मण्डलात्तञ्च स्थितं विद्युत्स्फुटो भवेत् । क्षिप्त्वानें ग्रामचटकं तञ्च चक्रेण ताडयेत् ॥ १७२ ॥ ततश्चन्द्रस्फुटःशोध्यः शेषो मेषस्फुटो भवेत् । अस्मिन् पिण्डस्फुटादूने दृष्टिर्नास्तीति निर्दिशेत् ॥१७३ ॥ दृष्टिरस्त्यधिके तञ्च कुर्य्याद्विघटिकामयम् । ओजःस चेदिवा दृष्टिः समश्वनिशि सम्भवेत् ।। १७४ ।। अथवा विकला पिण्डं पिण्डभोगेन भाजयेत् । लितिका दिनतो लब्धं दृष्टिकालस्य निर्दिशेत् ॥ १७५ ।। मासस्य मार्गशीर्षस्य मारभ्य मथमां सिते । पूर्व्वापाढस्सिताप्रेतं मेघगर्भः परीक्ष्यताम् ॥ १७६ ॥ १ स्थारा | २ गामवटकम् । ३ पूर्वापाढांशशिनाते ।