पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १२८ ) वृक्षोपगःक्रोशति तोयपातः स्यादिन्द्रखीले सचिवस्य पीडा । वायो गृहे सस्यभयं गृहान्तःपीडा पुरस्यैव च गोपुरस्थे ॥७४॥ भयञ्च शय्यास तदीश्वराणां याने भषन्तो भयदाश्च पश्चात् । अथापसव्या जनसन्निवेशे भयं भषन्तः कथयन्सरीणाम् ॥ ७५ | एकेनं प्रातः दिवसेन वस्यान्मासत्रयेणापि च केन चोक्तः । श्वभिःशृगालाः सदृशाः फलेन विशेषमेषामधुना प्रचक्ष्ये ॥७६|| पूर्वीदीच्योः शिवा शस्ता शान्ता सर्व्वत्र पूजिता । धूमिताभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान् ॥ ७७ । राजा कुमारो नेता च दूतःश्रेष्टश्चरो द्विजः । गजाध्यक्षश्च पूर्व्वायः क्षत्रियाद्यश्चतुर्देिशाः ॥ ७८ ॥ पुरे सैन्येऽपसव्या च कष्टा सूर्य्योन्मुखी शिवा । अन्यप्रतिरुती याम्ये सोदरामृतशंसिनी ॥ ७९ ।। वारुण्येभिरुता सैव शंसने सलिले मृतम् । याहीसग्निभयं शास्ति टाटेर्ति मृतवेदिका । घिधिदुष्कृतमाचष्टे सज्वाला देशनाशिनी ॥ ८० ।। भेभेति भयमाचष्टे भोभो व्यापादमादिशेत् । फलमो शपमानेन ग्राह्यञ्च परतो रुतम् ॥ ८१ ॥ इति श्वगामायुचरितादेशः ॥ नक्षत्रचक्रं गृहगोलिकायाः शस्तं रुतादेशविधौ रुतज्ञैः । | चुच्छुन्दरी शब्दविधौ च भौमे तूत्पातजाते च ससीम्नि देशे८२ लोपाशिकायाः खलु किस किसीतिरुतं 'विनान्यानिव वृद्धिदं स्यात् रुतानि सर्व्वाणि च सर्व्वदिक्षु नेष्टानि शिष्टैरिह सम्मतानि ॥८३ || १ भन्ति ।, २ याम्या | ३ चोदिका | ४ माशपतमाणेण । ५ विनन्या ।