पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १२७ ) माइकाले ऽवग्रहेऽम्भो वगाह्यं प्रसादृत्तैरेचकैश्चाप्यमीक्ष्णम् । आधुन्वन्तो वा पिवन्तश्च तोयं दृष्टिं कुर्व्वन्त्यन्तरे द्वादशाहाव६२ द्वारे शिरो न्यस्य बहिःशरीरं रोरुयते वा गृहिणीं विलोक्य | शोकप्रदः स्यादथमन्दिरान्तर्वहिर्मुखःशंसति वन्धकीं ताम् ॥६३॥ कुड्यमुत्किरति वेक्ष्मनो यदा क्षेत्रकाननभयं तदा भवेत् । गोष्टमुत्किरति गोग्रहं बदेद्धान्यलब्धिमपि धान्यभूमिषु ॥ ६४ ॥ एकेनाक्षणा साश्रुणा दीनदृष्टिर्मन्दाहारो दुःखकृत्तद्गृहस्य । गोभिःसार्द्धं क्रीडमाण:सुभिक्षं क्षेमारोग्यं चाभिधत्ते मुदञ्च ॥६५॥ वामं जिग्रेज्जानुवित्तागमाय स्त्रीभिःसाकं विग्रहो दक्षिणं चेत् । ऊरुं वामं चेन्द्रियार्थोपभोगाः दक्षं जिघेदिष्टमित्रैर्विरोधः ॥६६॥ यातुः पादौजिघ्रेश्त चेदयात्रां प्राहार्थाप्ति वाञ्छितां निश्चलस्य । स्थानस्थस्योपानही चोद्रेजिघ्रेत् क्षिमं यात्रां सारमेयःकरोति॥६७॥ उभयोरपि घ्राणने हि वाह्रो विज्ञेयो रिपुचौरसम्प्रयोगः । अथ भस्मान गोषयेत भक्षान् मांसांस्थीनि च शीघ्रमग्निकोपः॥६८॥ ग्रामे भषित्वापि वहिःश्मशाने भषन्ति चेदुत्तमपुंविनाशः । यियासतश्चाभिमुखो विरौति यदा तदा वा निरुणद्धि यात्राम६९ उकारवर्णेन रुतेऽर्थसिद्धि रोकारवर्णेन च वामपार्श्वे । ब्याक्षेपमौकाररुतेन विद्यान्निषेधकृत् सर्व्वरुतैश्च पश्चात् ||७०॥ षङ्खेति वोचैश्चमुहुर्मुहुर्ये रुवन्ति दण्डैरिव ताड्यमानाः । श्वानोऽभिधावन्ति च मण्डलेन ते शून्यतां मृत्युभयञ्च कुर्युः ॥ ७१ ॥ प्रकाश्य दन्तान्यदि लेहि सृक्किणी तदाशनं मृष्टमुषन्ति तद्विदः । यदाननञ्चावलिहेनं सृक्किणी प्रवृत्तभोज्येऽपि तदान्नविघ्नकृत्॥७२॥ ग्रामस्य मध्ये यदि वा पुरस्य भषान्त संहस मुहुर्मुहुर्ये । ते क्लेशमाख्यन्ति तदीश्वरस्य वारण्यसंस्थो मृगवाद्वेचिन्सः॥७३॥ १ सव्यं । २ च । ३ संगत्य | ४ पातो ।