पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १२४ ) सौम्यायां परमान्नाशनं तुरङ्गाम्बरमप्तिः ॥ २९ ॥ ऐशान्यां सम्माप्तिप्रेतपूर्णानां भवेदनहुहश्च । एवं फलं गृहपतेर्गृहपृष्टसमाश्रिते भवति ॥ ३० ॥ गमने कर्णसमश्चेत् क्षेमायनकार्यसिद्धये भवति । अभिमुखमुपैति यातु विशन्विनिवर्तयेद्यात्राम् ॥ ३१ ॥ वामे बाशित्वादौ दक्षिणपार्श्वेऽनुवाशते यातुः । अर्थापहारकारी तद्विपरीतोऽर्थसिद्धिकरः ॥ ३२ ॥ यदि वाम एव वशन्मुहुर्मुहुर्यायिनोऽनुलोमगतिः । अर्थस्य भवतिँसिद्धिः प्राच्यानां दक्षिणश्चैवम् ॥ ३३ ॥ वामःमतिलोमगतिर्वाशत् गमनस्य विघ्नकृद्भवति । तत्रस्थस्यैव फलं कथयति यहाञ्छितं गमने ॥३४॥ "- दक्षिणविरुतं कृत्वा वामे वाश्येद्यथेप्सितार्थाप्तिः । वाशन पुरोट्र्तं याति वाव्रतोऽर्थागमोऽतिमहान् ॥ ३५ ॥ प्रतिवाश्य पृष्टतो दक्षिणेन योयाद्द्रुतं क्षतजकर्त्ता । एकचरणोर्कमीक्षन् विरुवंश्च पुरो रुधिरहेतुः ॥ ३६॥ दृष्ट्वार्क मेकपादस्तुण्डेन लिखेद्य स्वपिच्छाङ्गम् । परतो जनस्य महतो वधमभिधत्ते तदा बलिभुकू ।। ३७ ॥ सस्योपेते क्षेत्रे वाशति शान्तोऽतिसस्यभृलब्धिः | आकुलचेष्टो वाशन सीमान्ते क्लेशकुद्यातुः ॥ ३८ ॥ सुस्निग्धपत्र पल्लत्रकुसुमफलानम्रसुरभिमधुरेषु । सक्षीराब्रण सुस्थित मनोज्ञवृक्षेषु चार्थकरः ।। ३९ ।। निष्पन्नसस्यशाइलभवनप्रासादहर्म्य हरितेषु । घान्योच्छ्रयमभूतिषु शस्तेषु रुवन्धनागमकृत् ॥ ४० ॥ १ रङ्गम्बरप्राप्ति । २ ऐश्यान्यं । ३ घृतपूर्वान्यासालब्धिः रुदाति । ४ सिद्धिदो । ५ घासत् । ६ चारित | ७ सिद्धिप्रस्थानम् । ८ पिच्छाङ्गम् । ६ बाशानि ।