पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ळमेन रत्नेन च संगुणय्य सेनावारीष्टैरुभयत्र विद्यात् । बुधादिकंः शीतकरादिकञ्च वर्षेश्वरं मांसयुगं क्रमेण ॥ ६८ ॥ स्रवन्ति सरितः स्वल्पजीमूतानातिवारिदाः । पृथवी सस्यविरला व्यालदंष्ट्रिसमाकुला || ६९ ॥ पित्तं कुप्यति सीदन्ति तापसाः सहगोकुलैः । नभोमलिनवद् दृश्यं तीव्र तपति भास्करः ॥ ७० ॥ नृपाः युधिबलैराढ्याः देशान् नीन्त परस्परम् संवत्सरे च मासे च वारे च द्वादशात्मनः ॥ ७१ ॥ इति संवत्सरफलम् || दक्षिणायनमुशन्ति भास्वतः कर्कटादिमकरादि वा परम् । उक्तकालसममेव वा परं तन्निवृत्तिरणवान्यथा यथा ॥१॥ कलहाय भवेद् भानू रजतादर्शवन्मधौ । भयाय घर्मे रक्ताभः श्वेतो वर्षस्य दृष्टिकृत् ॥ २ ॥ धूसरः शरदि क्रूरो हेमन्ते काण्णकारवत् । रोगकृच्छिशिरे पिङ्गश्चोरशत्रुभयावहः ॥ ३ ॥ शिरीषपुष्पवत् सो दृष्टिकाले सुदृष्टिकृत् । धत्ते चन्द्रकपिच्छाभो द्वादशाब्दमवग्रहम् ॥ ४॥ श्यामः कीटभयं भष्मसादृक् परवलागमम् । शशिवत् सकलक्षोभं विद्धाति दिवाकरः || ५ || उल्कया यदि च विद्युदादिना तिगूपरीश्मरुदयाचलस्थितः ॥ १ शेना । २ वासविभुम् । ३ वृष्टिकालेषु च ।