पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ११५ ) केचिद् व्याचक्षते दृष्टे रथःप्रियसमागमम् । नेत्रान्ते धनलाभञ्च उन्मूले भूयसंशमम् ॥ २९ ॥ लोचनस्योपरिस्यन्दौ मानसीञ्च रुजं जगुः | कपोले त्रिमयोगश्च चिचुके मधुरासनम् ॥ ३० ॥ अधरोष्टे रिपुध्वंसो मित्राप्तिश्चोत्तराधरे । नासिकायां सुगन्धाप्तिर्गले च विजयो भवेत् ॥ ३१ ॥ अंशे च भोगवृद्धिश्च बहाविष्टेन सङ्गमः । मणिबन्धे येशोलाभो हस्ते द्रविणसम्भवः ॥ ३२ ॥ पृष्ठे पराजयो वर्क्षस्युदयो चोदरेषु च । स्तने त्वपूर्वी स्त्रीलाभं पार्श्वमोतिरनुत्तरा ॥ ३३ ॥ जठरे शोकवृद्धिश्च नाभौ स्थानादिह च्युतिः । कट्यामाश्रितसम्मोदः कोशे कोशविवर्द्धनम् ॥ ३४ ॥ मुष्के तनयलाभश्च जघने वनितागमः । वस्तौ कुटुम्बवृद्धिश्च दोषः स्यादुरुपृष्टतः ॥ ३५ ॥ ऊरुपौरस्यभागे तु मित्रता सचिवैः सह । जानुन्यरातिसन्धानमथवा गमनं ध्रुवम् ॥ ३६ ॥ जङ्घाया:स्थानलव्धिश्च पादपृष्टे तु विग्रहः । प्रयाणं भयसंयुक्तं स्यन्दने चरणोदरे || ३७ || इति स्पन्दुनादेशः ॥ मुद्धी ललाटस्य तटीभुजौच वक्षश्च हस्तांघितलानि चैवम् । भ्रूभ्रूणमुख्यावयवानि वै ते प्लोषोलवणाः खेदकरा नराणाम् ३८॥ दृशौ कपोलावधरौ गलश्च कुक्षिश्च कोशो जघनञ्च पासुः | एकादशैतेऽवयवाःजलाढ्याःप्लोषोत्तरास्तोषकरा नराणाम् ३९ १ मानसी । २ जयोलाभो । ३ स्युदयोक्ष्येसुच । ४ द्वेसस्या | ५ कटीभुजौच ।