पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दक्षहस्तेऽर्थलोपश्च स्थानभ्रंशस्ततोऽन्यतः । मकोष्टयोर्जयालाभौ शोकहर्षो तदुर्ध्वयोः ॥ ७ ॥ अंशयोः कीर्त्तिलाभौ च कण्ठे विग्रहनिग्रहौ । फकटिकायाश्चद्दक्षांशे शोको रोगो परांशके ॥ ८ ॥ चुचुके भीतिदारिद्रौ गण्डयोभोंगदुर्व्यशः । अधरोष्टे मनस्तापं मियं स्यादुत्तरोधरे ॥ ९ ॥ नासिकापुटयोजतौ तापनिवेदकारिणी । दृशोराधिसमाधी च कर्णयोःप्रियविषयौ ।। १० ।। भ्रुवोः स्त्री कलहक्षेपौ शङ्खयोजियो द्वयोः । ललाटे व्याधिदारिद्रौ मूर्ध्नि श्रीविभवौ कमात् ॥ ११ ॥ इतिमाषकोत्यातादेशः । 0 दक्षपादतले जातस्तिलक स्तनयापहः । वामे निहन्ति वनितां कुरुते च सुहृत्क्षयम् ॥ १२ ॥ असितो वा सितोवापि पोतो वा रक्त एव वा । पुष्परुपो नखेष्वङ्कः स उत्पात उदाहृतः ॥ १३ ॥ रक्तासिताबधिफलौ पीतश्वेता तु मध्यमौ । दक्षिणे चरणाङ्गुष्टे कलङ्को वित्तलोपकृत् ॥ १४ ॥ द्वितीये विग्रहं माहु स्तृतीय मानसामयम् ॥ चतुर्थे मियमाचष्टे पञ्चमे पुत्रसम्पदम् ॥ १५ ॥ यथोक्तविपरीतेन वामपादे फलं वदेत् । पादयोर्विपरीतेन फलं करनखेषु च ॥ १६ ॥ पीडां पितुश्च मातुश्च पादयोःपृष्टजां वदेत् । जङ्ययोर्व्यसनानन्दौ सक्योरग्निभयं द्वयोः ॥ १७ ॥ १ बधिफली । २ करणकेषु । ३ रग्निभयोदयो । १५