पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दीर्घहनुः प्रदिष्टः ॥ २९ ॥ हस्त्रो गलो गुणधनं कुरुते च पृष्टं हस्वं प्रशस्त शयनं मदनध्वजस्तु । इस्वोनरेश्वरमितः प्रवलाच जङ्घा इस्वीत सर्व्वकचतुष्टयमेवमाहुः ॥ २८ ॥ सुदीर्घवादुश्चिरकालजीवी सुदीर्घनेत्रः प्रचुरार्थलाभी। सुदीर्घनासास्थिरमित्रवन्धुर्लोकप्रियो दीर्घाङ्गुलिकःपुरुषो बहुयोषित समागमः । इसेवं पञ्चदीर्घानि प्रशस्तानि विचक्षणैः ॥ ३० ।। सूक्ष्मान्यङ्गुलिपर्व्वाणि स्थिरचित्तं प्रकुर्व्वते । सूक्ष्माः केशाश्चरोमाणि जनयन्ति सुभांगिनम् ॥ ३१ ॥ सूक्ष्ममांसत्वचश्चापि दधते मृदु मानसम् । इसेवं पञ्चसूक्ष्मानि निर्दिष्टानि पुरातनैः ॥ ३२ ॥ कक्षःकुक्षिश्च वक्षश्च नासा स्कन्धो ललाटिका । उन्नता वीर्य्यधान्यश्रीः सुहृच्छाक्तिसुखमदाः ॥ ३३ ॥ रक्तपाणिर्धनाढ्यःस्या द्रक्तपादश्च यानवान् । रक्तनेत्रः श्रिया युक्तो रक्ततालुः सुभोजनः ॥ ३४ ॥ बहुमित्रो रक्तनखो रक्तजिह्वश्च बुद्धिमान् । रक्ताधरो वचस्त्री स्यादिसेवं रक्तसतकम् ॥ ३५ ॥ इति पुरुषलक्षणम् । z ललाटे दृश्यते यस्याः तिलकं कुष्णपिङ्गलम् । वज्राकृतिर्थ्याविमला सा स्यादैश्वर्य्यभाजनम् ॥ ३६ || चामे पयोधरे यस्याः हस्ते कर्णे गलेऽपि वा । मापकस्तिलको वापि सापि लोकेन पूज्यते ॥ ३७ ॥ १ स्थिर मित्रं ।