पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवद्विजन्मयतिपूजनलब्ध कीर्तिः स्त्रीनिज्जितः कफमरुप्रकृतिः कृतज्ञः । बन्धुःमियःसुनिपुणः क्रयविक्रयेषु "रोगालयः समनिधिःखलु वायुजन्मा ॥ ८१ ॥ हित् सुपरुषो रिपुसुप्रसिद्धः सन्यक्तपुत्रवनितः क्षितिपालपूज्यः | अन्यन्तरोग विधुरञ्चपलॉर्थलुब्धः कृसानुगःमणिधिरिन्द्रकृशानुजन्मा ॥ ८२ ॥ मित्रप्रियः परमसाधुरौढनिद्रः प्रच्छन्नपापहृदयः कृशदीर्घगात्रः । तीक्ष्णो विवृद्धवानताप्रणयी नयज्ञः सेवारतस्तनयवानपिमित्रजातः ॥ ८३ ॥ - उग्रःप्रतापनिलयः परदूषण: प्रज्ञान्वितःशठमतिर्नृपलब्धवित्तः । मिथ्यामलापनिपुणः कफवातमूत्तिः पापक्रियासु चतुरः किल शक्रजातः ॥ ८४ ॥ माज्ञः कविर्जन के लब्धधनःसदर्थः कीत्तिप्रियः परिजनानुगतो वचस्वी | ह्रस्वः प्रसन्नयुतबन्धुरसयसन्धः स्त्रोनिज्जितःस्वकृपणः किल मूलजातः ॥ ८५ ॥ कम्र्मोद्यतः सलिलजातधनः सवीर्यः त्यागी विशालदशनो गुरुविप्रयुक्तः । विद्याविवेकरहितः कलहप्रियश्च नित्याधनः कुनखवान् सलिलाभिजातः ॥ ८६ ॥ १ रोगायसस्मयनिधिः ।