पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चाटूपचारनिरतः किल पुष्यजन्मी ॥ ७४ ॥ शीर्षोन्नतः प्रचुरभक्षणवद्धबुद्धि द्वेषोखणः क्षपणकः प्रणयीन्द्रमाथी । उच्चः शिरास्तततनुर्विधुरः शयालु मूर्खः परस्वमुखितो भुजगर्क्षजन्मा ॥ ७५ ॥ अल्पात्मजः पृथुतनुः समसंहतात्मा शैलाटवी प्रणयवान सुखितः सदैव । निसामयो युवतियोगविषण्णचेताः सीमातिगो गुरुजनेषु मघाभिजातः ।। ७६ ॥ ऋो विरुपतरमूर्तिरकाव्यकोपी युद्धप्रियः प्रियतमाभिरतःकृतघ्नः । वल्यःसुखीतनय वित्त विवर्जितश्च विमप्रियः सुनिपुणश्च भगाभिजातः ॥ ७७ ॥ शास्त्रार्थवित्परवधूनिस्तो दयावा नल्पात्मजः कृशतनुः कृतयोगिसङ्ख्यः । सौम्यः परोपचारतो मधुराशनश्च कान्तःसुनीतिनिधिरुतरफाग्लुणीजः ॥ ७८ ॥ लज्जान्वितःकुलिशधीर्बहुमाननीयः कान्तःकृपालुरणघः कटुकाम्भोजी । सदसङ्गवाननुपभोगविनष्टवित्तः पान्थोलसः प्रमुदितश्च कराभिजातः ॥ ७९ ॥ कामी कटोरहृदयो बहुशिल्पवेदी काव्यशियः सुललितश्च जघन्यवन्धुः । मांशुःमभूतविभवः समयेषु सक्तः श्यामःमभुः किल चतुर्दशभाभिजातः ॥ ८० ॥