पृष्ठम्:देलरामाकथासारः.pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
काव्यमाला।


धुरंधरे तत्त्वयि नाथ भूमिपुरंदरे पौरविचारदक्षे ।
विटादयश्चेत्प्रभवन्ति पापास्तत्कस्य गर्हा क्रियते परस्य ॥ ४२ ॥
श्रुत्वेति तद्वाक्यमसौ नरेन्द्रः ससंभ्रमं दीनतरं तदानीम् ।
आश्वासमाशां विरचय्य सद्यो व्यसर्जयच्चारगणांस्तु दिक्षु ॥ ४३ ॥
अन्विष्य ते चारगणा यदा न प्रापुः कृतश्चित्रमतिप्रयत्नात् ।
तदा नरेन्द्रस्य भिया पलाय्य चाशिश्रयन्देशमथान्यमेव ॥ ४४ ॥
 देशेऽस्मिन्बत जाल्मतस्करविटा वृद्धिं कियन्तो घना
 जग्मुः केन नितान्तमेव दुरितासक्ता महानिष्कृपाः ।
 यत्कश्चित्कमिता जहार गणिकां तां देलरामाभिधां
 हाहाकारमिति प्रकाममुदभूत्प्रत्यालयं प्रत्यहम् ॥ ४५॥

इति देलरामाकथासारे तद्रूपवर्णनानन्तरमेतस्यास्तिरस्कारो नाम द्वादशः सर्गः ।

त्रयोदशः सर्गः।

याते तु काले विपुले कदाचित्कृशाकृतिं तां रुधिरार्द्रदेहाम् ।
खरीस्वरूपामुपरिस्थितक्ष्मापालात्मजप्रत्तघनप्रहाराम् ॥ १॥
सबाष्पनेत्रां बत देलरामां ददर्श मार्गे स्वसुतानुयाता ।
योगीश्वरी काचिदमन्दजातकुतूहला ज्ञानवती सुदूरात् ॥ २॥
   (युगलकम् )
आलोक्य तां साह ततः स्वकन्यामेकं महत्कौतुकमग्रतस्त्वम् ।
पुत्रि द्रुतं पश्य न यावदेति दृग्गोचराद्दूतरं प्रयाति ॥ ३ ॥
साप्यब्रवीत्तां जननीं न किंचित्पश्याम्यहो मातरहं विचार्य ।
प्रत्याह कन्यामथ योगिनी सा येयं खरी सैव हि देलरामा ॥४॥
आरुह्य यस्तिष्ठति पुत्रिपृष्ठे चास्याः प्रहारैर्जनयन्हि पीडाम् ।
स राजपुत्रो बहुशोऽनयायं विवश्चितश्छद्म विधाय पूर्वम् ॥५॥
श्रुत्वेति संजातकुतूहला सा निर्बन्धतस्तां जननीमपृच्छत् ।
आमूलवृत्तान्तमशेषमेव व्यावर्णयामास तु योगिनी सा ॥ ६ ॥