पृष्ठम्:देलरामाकथासारः.pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२ सर्गः।
४७
देलरामाकथासारः।

 चूर्णीकृतामथ मुमोच तदीयशीर्षे
 वृक्षत्वचं भव खरीति निगद्य वाचा ॥ ३१ ॥
 तद्वाक्यमात्रवशतः सहसा तदानीं
 वाराङ्गनाविगतसर्वनिजस्वरूपा ।
 सा गर्दभी समभवन्नरनाथसूनो-
 स्तच्चेष्टितं मनसि रोषवशात्स्मरन्ती ॥ ३२ ॥
 दन्तालिकामथ वितीर्य स राजपुत्रः
 पीडामतीव जनयंल्लगुडप्रहारैः ।
 ईर्ष्यावशेन सहसा स्वयमेव पृष्ठं
 तस्या अशिश्रयदसूक्ष्मघृतप्रमोदः ॥ ३३ ॥
श्वभ्राद्रिकान्तारवनप्रदेशान्बभ्राम कान्तोऽधिकरूपहीनाम् ।
आरुह्य नित्यं स तु गर्दभी तां भीतां प्रहारैः स्रवदश्रुधाराम् ॥ ३४ ॥
तदीर्ष्यया स्वात्मकृते समं सा वहन्नपूपाः स नरेन्द्रसूनुः ।
स्वल्पं ददौ वारि तृणं च तस्यै पृष्ठाद्दिनेनावततार जातु ॥ ३५॥
अत्रान्तरे तत्परिवारवेद्यो दिनेष्वनल्पेषु गतेषु तत्र ।
तां स्वामिनीं नैव कुतोऽप्यवापुर्गवेषितामप्यखिलाध्वयानैः ॥ ३६ ॥
लब्धुं ततस्तां परिवर्जिताशाश्चेट्यः समग्रा अपि कुट्टनीश्च ।
स्वमस्तकन्यस्तसमस्तहस्ताश्चक्रन्दुरुच्चैर्गलदश्रुधाराः ॥ ३७ ॥
जग्मुः समग्रा अपिराजधानीं तच्चेटिका बाष्पनिरुद्धवाचः ।
आस्थानसंस्थं ददृशुर्नरेन्द्रं निवेदिता द्वाःस्थगुणेन सद्यः ॥ ३८ ॥
विन्यस्य जानुद्वयमग्रतस्ताः कृत्वाशिषं साश्रुदृशः सदुःखाः ।
चेट्यः समग्रा अपि कुट्टनी च व्यजिज्ञपन्भूमिपतिं प्रणम्य ॥ ३९॥
राजन्वती भूर्भवता नरेन्द्र प्रजापरित्राणकरस्त्वमेव ।
श्रीमान्सुरत्राणवरस्त्वमद्धा तद्दीनवाक्यं शृणु सावधानः ॥ ४० ॥
केनापि षिङ्गेन हृताद्य राजन्विलासिनी सा बत देलरामा ।
अन्वेषिताप्येव नितान्तयत्नात्कुतोऽपि नास्माभिरंहो प्रलब्धा ॥ ४१ ॥