त्वं वञ्चितो ननु यया कपटेन तुभ्यं
तत्प्राप्युपायवरमद्य वरं वदामः ।
लज्जामहे तदपि ते पुरतो विनग्ना
नीत्वास्मदीयवसनाभरणानि देहि ॥ १३ ॥
श्रुत्वेति ताः स निजगाद नरेन्द्रसूनु-
रादौ वरं ददत मह्यमिहाद्य तूर्णम् ।
मुञ्चामि युष्मदखिलाभरणादि वस्तु-
व्रातं ततः सपदि नापरथा कदाचित् ॥ १४ ॥
आकर्ण्य तस्य वचनं नृपनन्दनस्य
चैका जगाद वनसंमुखदत्तदृष्टिः ।
संवर्धितः वयमसौ हि मयात्र शाखी
कृत्वालवालमयमेव महाप्रभावः ॥ १५ ॥
एतत्पलाशमपि यो मनुजो हि धत्ते
वस्त्रान्तरे यदथ वा निजपाणिमध्ये ।
स प्रत्यहं प्रकुरुतेऽतिसुखेन दीना-
राणां शतत्रयमवाप्य यथेष्टभोगान् ॥ १६ ॥
अन्याप्युवाच तरुरेष महान्मदीयो
यो धारयेविटपमस्य महाप्रभावम् ।
यद्यत्पुरं समभिवाञ्छति गन्तुमद्धा
तत्तत्समाश्रयति स क्षणमात्रमेव ॥ १७ ॥
भूपालनन्दनमवोचदथो तृतीया
योगीश्वरी निजकराङ्गुलिदर्शनेन ।
पश्याग्रतो विकचभूरितरप्रसूनः
शाखी महामहिमवानिह मामकोऽयम् ॥ १८ ॥
अस्य त्वगेव नृपनन्दन यस्य चूर्णी-
कृत्वा शिरस्यमितरोषवशेन नूनम् ।