प्रक्षिप्यते सपदि गर्दभतां स गच्छे-
त्स्वेच्छावशेन निजकर्मकृते विधेयः ॥ १९ ॥
कारुण्यपुण्यवशतः खरजन्ममुक्ति
वाञ्छेत तस्य यदि किं तु रुषं विहाय ।
भूपोऽपि मस्तकतले त्वचमेतदीयां
प्रेम्णा क्षिपेत्सपदि सोऽपि तथाविधः स्यात् ॥ २० ॥
श्रुत्वेति हृष्टहृदयः स परस्परं त-
द्वाक्यं यथाभिलषितं च वरं प्रलब्ध्वा ।
ताभ्यो ददौ स्ववसनाभरणानि सर्वं
यन्नीतमेव सहसा नरनाथसूनुः ॥२१॥
आप्लावनिर्मलतरङ्गनितान्तजात-
कान्तिप्रभातुलितशारदचन्द्रशोभाः।
आमुक्तदिव्यवसनाभरणाः स्त्रियस्ता-
स्तत्कालमेव सहसाथ तिरोबभूवुः ॥ २२ ।।
सोऽथ प्रहृष्टवदनो नरनाथसूनु-
रेकैकशः क्षितिरुहत्रितयात्तदानीम् ।
पर्णे त्वचं च विटपं च महाप्रभावं
तस्मादजिग्रहदनल्पकुतूहलेन ॥ २३ ॥
वस्तुत्रयं तदथ हस्तगतं विधाय
प्रोवाच वाचमिति राजसुतस्तदानीम् ।
तस्या इतस्त्वरितमेव हि वारवध्वाः
संप्राप्तधामनिकटोपवनो भवेयम् ॥ २४ ॥
इत्युक्त्वा विटपस्य तस्य सहसा माहात्म्यतः प्राप्तवा-
निच्छामात्रवशेन वारवनितावश्मान्तिकस्थं तदा।
उद्यानान्तरमेव राजतनयः प्रोल्लङ्घय रत्नाकरं
ध्यायंश्चेतसि तत्पराभवमसौ भूयिष्ठरोषाकुलः ॥ २५॥
इति देलरामाकथासारे योगिनीवरप्रसादेन सिन्धुद्वीपादुत्तीर्य राजपुत्रस्य गणिकोप-