एवं प्रलापमुखरो निजपाणिपृष्ठे
ध्यात्वा मुखं क्षणममन्दशुचा निदद्रौ ॥ ६॥
तत्काल एव(?)विधिनियोगवशेन दिव्यं
मञ्जीरमञ्जुतरशिञ्जितमुल्ललास ।
आकर्ण्य तत्सपदि भूपसुतः प्रबुद्ध
उत्थाय चाक्षिपदसौ परितः स्वदृष्टिम् ॥ ७॥
बभ्राम काननमितस्तत एव ताव.
दाप्लावसज्जमथ तावदसौ ददर्श ।
सीमन्तिनीत्रितयमत्र विनग्नगात्रं
तीरस्थितानुपमवस्त्रचयस्वरूपम् ॥ ८ ॥
उद्वीक्ष्य जातकुतुकः स ततः प्रदध्यौ
नैवेह कस्यचिदपश्यमहं हि वक्रम् ।
प्राप्तं ततो द्रुततरं वनितात्रयं तु
भूयिष्ठदृष्टसुविशिष्टगरिष्ठधाम ॥९॥
जाने हि काश्चिदपि दिव्यवरप्रभावा
एताः स्त्रियो ललितकान्तिवशाद्भवन्ति ।
यत्तन्ममास्तु सहसाभरणादि वस्तु
क्षिप्रं हरामि तदथो किमिवावदन्ति ॥ १० ॥
ध्यात्वेति वारिनिधितीरतलाज्जहार
सद्यस्तदीयवसनाभरणादि सर्वम् ।
आलोक्य तास्तदिति नग्नसमग्रदेहा
भूपालसूनुमवदन्नितरां हसन्तम् ॥ ११ ॥
भो भो महापुरुष नैतदिहोचितं ते
योगिन्य एव हि वयं त्रिदिवावतीर्णाः ।
खातुं समुद्रसलिले विमलेऽधुना त-
न्मा बालचापलवशात्कुरु नर्मलीलाः ॥१२॥