आख्यास्यन्नृपनन्दनस्य विहितच्छद्मक्रियावञ्चना-
वृत्तान्तं सकलं सहास्यवचना हर्षेण वाराङ्गना ॥ ३५ ॥
एकादशः सर्गः।
अत्रान्तरे स नरनाथसुतः समुद्र-
द्वीपे प्रभातसमये सहसा प्रबुद्धः ।
भस्त्रां शुकं च रुचिराभिनवां स्थलस्थां
तां चापि वारवनितां न ददर्श तत्र ॥ १ ॥
स्मृत्वा ततो रजनिमध्यनिरुक्तवाचं
निन्दन्स्वकीयमतिविप्लवमुच्चकैस्तम् ।
सर्वं तयैव विहितं ननु वारवध्वा
मेने विमृश्य कपटं प्रकटं स्वबुद्ध्या ॥२॥
उच्चैः शुशोच स ततो नरनाथसूनु-
र्जानन्मृतं स्वमुपवासनितान्तयत्नात् ।
अश्नामि किं कथमितश्च तरामि सिन्धो-
रेकोऽधुना बत किमत्र करोमि शून्ये ॥ ३ ॥
आदौ ययैव बत वञ्चित एव योऽह-
माश्वास्य हृद्गतमवोचमहो हि तस्याः ।
धिङ्मां विमर्शरहितं सहितं नितान्तं
मौर्ख्येण येन विपदं बहुशो भजामि ॥ ४ ॥
निर्वासितः प्रथममेव यदानयाहं
दत्त्वार्धचन्द्रमवमानमलं विधाय ।
रथ्या तदा मम बभूव सुखेन गम्या
तन्निर्मिता प्रतिदिनं निजजीवरक्षा ॥५॥
काहं व्रजामि तदितस्त्वधुनातिदुर्गा-
द्रत्नाकरं कथमिमं बत लङ्घयामि ।