पृष्ठम्:देलरामाकथासारः.pdf/४३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्
३६
काव्यमाला ।


 तन्माहात्म्यवशेन वासभवनान्निर्याय चालक्षित-
 स्तद्द्वीपं समवाप वाञ्छिततरं मध्येसमुद्रं द्रुतम् ॥ ३१ ॥

इति देलरामाकथासारे वस्तुत्रयप्राप्यनन्तरं देलरामां वासभवनादाकृष्य तया साकं

राजपुत्रस्य सिन्धुद्वीपगमनं नाम नवमः सर्गः ।

दशमः सर्गः।

प्रातरत्र सहसा विहाय निद्रामसावथ विलासिनी तदा ।
न व्यलोकत निजं गृहादिकं केवलं च परितः पयोनिधिम् ॥ १॥
सा ततो विपुलजातसाध्वसातङ्कसंकुचितदर्पगौरवा ।
तत्र वारवनिता व्यचिन्तयद्भूमिपालसुतमायया छलम् ॥ २ ॥
हन्त मे प्रतिकृतिर्दुरात्मनाश्वास्य किं तु विहितामुनाधुना ।
क्व व्रजामि तदितो महार्णवात्प्रोल्लसद्विपुलवीचिसंचयात् ॥ ३ ॥
मामकं सदनमाययौ यथा गूढमेष नितरामलक्षितः ।
तत्तथेह च हि मां द्रुतं ममाकृष्य वासभवनादिहागतः ॥ ४ ॥
किं प्रलापनिवहैर्वृथा कृतैः सावहित्थमिह वस्त्रमद्य मे ।
युक्तमेव परथा त्वहं रुषा चेदनेन निहता शृणोति कः ॥ ५ ॥
एवमत्र तु विचिन्त्य तं प्रबुद्धं जगाद मुदितेव तत्क्षणम् ।
शोभनं हि भवता विनिर्मितं कर्मतोऽर्थयति मामकं मनः ॥ ६ ॥
कुट्टिनी गतघृणा हि तत्र मां त्वत्परायणतमां विलोक्य सा।
संततं भ्रुकुटिमेव मन्युना दुर्मतिः प्रकुरुते स्म भूरिशः ॥ ७ ॥
अद्य तावकधिया नृशंसधीः सा क चाहमपि च क दूरतः ।
एकया तदपि हन्त चिन्तया व्याकुलास्मि नितरामिह प्रभो ॥ ८॥
ग्राम एव न च पत्तनं विभो दृश्यतेऽत्र न तु मानुषागमः ।
केवलं जलधिरेव सर्वतः सांप्रतं किमुपभुज्यते हि तत् ॥९॥
सोऽभ्यधान्नृपसुतः प्रहर्षवान्वारयोषितमथो विहस्य ताम् ।
भुङ्क्ष्व यन्मनसि रोचते प्रिये तुभ्यमद्य भव धीरधीः सदा ॥ १० ॥
इत्युदीर्य सभयां प्रियां समाश्वास्य कीरमवदत्पुरःस्थितम् ।
किंचिदेव किल तत्करे समर्प्यं स्ववित्तमवनीशनन्दनः ॥ ११ ॥