तस्यासने तु विनिरीक्ष्य नवां स्थलस्था-
मेकं शुकं च करगं परितुष्टचित्ता ।
पप्रच्छ वस्तुयुगलस्य तु तस्य वार्तां
संजातविस्मयवशेन नरेन्द्रसूनुम् ॥ २५ ॥
सोऽमुं मृषैव निजगाद तु सावहित्थं
छिद्रं विदन्पुनरपि क्षितिपालसूनुः ।
एकस्य कस्यचिदिदं करगं बभूव
वस्तुद्वयं स च ददौ प्रणयेन मह्यम् ॥ २६ ॥
उक्त्वेत्यथो बहुविधामितभोजमद्य-
पानादिकं सह तया स विधाय रात्रौ ।
खट्वातलेऽतिरुचिरे शयनार्थमुच्चै-
रभ्यर्थितोऽपि न मुमोच निजां स्थलस्थाम् ॥ २७ ॥
तस्यानुरोधवशतो निजतूलितव्य-
मुत्सृत्य वारवनितापि तदन्तिके सा ।
शय्यां व्यधात्कृतकरागवशावतीर्णा
पर्यङ्कतः सपदि भूरितरादरेण ॥ २८ ॥
याते ततो नृपसुतः स निशैकयामे
याम्ये तया कचिदितः सह चिन्तयेति ।
निर्निद्र एव समभाषत तां स्थलस्थां
सुप्तां विभाव्य तदुपर्यबलां समीपे ॥ २९ ॥
यत्रास्ति नो वसतिरेव हि यत्र रथ्या
न ज्ञायते जननि कुत्रचिदप्यजस्रम् ।
अम्भोनिधिः परित एव विभाति यत्र
द्वीपं तदद्य नय मामनया समेतम् ॥ ३० ॥
इत्थं राजसुतो निगद्य स ततो रात्र्यन्धकारे घने
भस्त्राकीरकरश्च वारवनितायुक्तस्तदानीं सुखम् ।