पृष्ठम्:देलरामाकथासारः.pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
काव्यमाला।

 ध्यात्वेति वारवनिता विततार सद्यः
 खट्वातलात्प्रमुदितेव समुत्सुकेव ॥ १८ ॥
 अभ्यर्णमेत्य चरणद्वितयं प्रणम्य
 तज्जानुयुग्ममपि सा परिचुम्ब्य सद्यः ।
 बाहुद्वयेन च बलिं विरचय्य चाग्रे
 भूमौ ततः समुपविश्य च तं बभाषे ॥ १९ ॥
 दिष्ट्या चिरेण मम लोचनगोचरत्वं
 यातः प्रभो कथय कुत्र तदद्य तावत् ।
 आसीद्भवान्विपुलसद्गुणवान्स्वकान्ति-
 लावण्यवान्प्रवरवारणबन्धरज्जुः ॥ २० ॥
 पापा गुणैर्विरहिता बत कुट्टनीयं
 चेट्योऽपि दुष्टमतयः सदने वसन्ति ।
 स्वैरं कुकर्म रचयन्ति निकाममद्धा
 याभिः कुबुद्धिवशतो नरिनर्तितास्मि ॥ २१ ॥
 प्राणप्रियस्त्वमपि याभिरहो हठेन
 निर्वासितः सपदि हन्त हि कद्वदाभिः ।
 मद्भारतीमपि निरस्य विहस्य ताभि-
 राक्रान्तवेश्मवशतः किमहं करिष्ये ॥ २२ ॥
 नाथ प्रसीद कुरु मा मयि चावहेलां
 लीलां कुरुष्व किल पूर्ववदेव तस्मात् ।
 उक्त्वेति वाररमणी रमणीयवाणी
 तं भूमिपालतनयं दृढमालिलिङ्ग ॥ २३ ॥
 सोऽपि क्षणेन विनिवार्य तु मौनमुद्रां
 भस्त्रां निघाय वसनान्तर एव गूढम् ।
 आलप्य किंचिदपि हास्यकरं स्वदीना-
 राणां शतत्रितयमक्षिपदेतदग्रे ॥ २४ ॥