पृष्ठम्:देलरामाकथासारः.pdf/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९ सर्गः।]
३३
देलरामाकथासारः।

 आकृष्य चापमित एव शिलीमुखांस्त्री-
 न्मुञ्चामि वो जवगुणं विनिरीक्षितुं तत् ।
 एकैकशः परिगृहीतमदीयबाणो
 यः पूर्वमन्तिकमिहैति स ज्येष्ठभागी ॥ १२ ॥
 आकर्ण्य वाचमिति तैस्तु तथेति चोक्ते
 कर्णान्तकृष्टहठगाढतरस्वचापः ।
 वेगेन दूरतरगामिनरेन्द्रसूनु-
 र्बाणत्रयं सपदि दिवित्रतये मुमोच ॥ १३ ॥
 तेषु द्रुतं तदभिधावनसोद्यमेषु
 त्यक्त्वा स्ववस्तुचयमस्य समीप एव ।
 प्राहोपविश्य नृपसूनुरथो स्थलस्थां
 भस्त्रां शुकं च निजहस्तगतं विधाय ॥ १४ ॥
 माहात्म्यतस्तव जनन्यधुनैव देल-
 रामान्तिकं द्रुततरं घनरंहसैव ।
 प्राप्नोम्यहं ननु यथैव तथा कुरुष्व
 त्वं मे प्रसादमवसाद निगर्हणार्हम् ॥ १५॥
 वाङ्मात्रतः सपदि भूपसुतः स तस्याः
 शय्यासमीपमथ तत्क्षणमाससाद ।
 साश्चर्यमेव च ससाध्वसमन्तिके तं
 दृष्ट्वा व्यचिन्तयदसावपि वारयोषित् ॥ १६ ॥
 अस्मद्गृहे बहुविधामिति रक्षिवर्गे
 नावेदितो न हि च केनचिदेव दृष्टः ।
 सोऽयं कथं सपदि मे निकटं प्रविष्टो
 भूयिष्ठविस्मयकरः स्वविशिष्टबुद्ध्या ॥ १७ ॥
 कोऽपि ध्रुवं समहिमायमुदारकीर्ति-
 स्तत्सांप्रतं विनयमेव करोमि चास्य ।