वस्तुत्रयं वरमिदं तदिहाद्य भागी-
कर्तुं विवाद उदभूदितरेतरं नः ॥ ५ ॥
त्वं कोऽपि संप्रति किलावसरेऽस्मदीय-
भाग्यैरिहागत उदारतरखबुद्धिः ।
भागीकुरुष्व तदिदं कृपया क्षणं नो
यद्यस्य वेत्सि तदितस्तु विचार्य देहि ॥ ६॥
पप्रच्छ राजतनयः स ततः प्रभूत-
संभूतकौतुकवशेन नरं तमेकम् ।
वस्तुत्रयस्य वद को महिमास्य साधो
यत्कारणेन भवतां जनितो विरोधः ॥ ७ ॥
एको नरः स निजगाद नरेन्द्रसूनुं
श्रुत्वेति वाक्यमथ तत्र पुरः प्रणम्य ।
भस्त्रेयमङ्ग ननु यस्य करेऽस्ति दीना-
राणां शतत्रयमसौ लभते सदैव ॥ ८ ॥
नित्यं स्वहस्तनिजदत्तयथेच्छनिष्कै-
र्भोज्यादिकं सपदि दूरतरादपि द्राक् ।
नेदिष्टमानयति तस्य सुभाग्यभाजः
कीरोऽप्यसौ प्रवरधीरुत यस्य पुंसः ॥९॥
एषापि यस्य कृतिनो भवति स्थलस्था
स्थानं स यत्सपदि वाञ्छति गन्तुमद्धा ।
प्राप्नोति तत्त्वरितमेव परैरदृष्टो
वैमानिकोपमजवेन नितान्तसौख्यात् ॥ १०॥
श्रुत्वेति तं स निजगाद नरेन्द्रसूनु-
र्जानाम्यहं वरगुणान्हि परस्परं वः ।
कस्मै मयाधिकतमो रुचिरः स्वभाग-
स्तद्दीयतेऽलमिति चेतसि संशयो मे ॥ ११ ॥
पृष्ठम्:देलरामाकथासारः.pdf/३९
दिखावट
पुटमेतत् सुपुष्टितम्
३२
काव्यमाला।
