पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/9

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
दिव्यदृष्टिः

फलकानि समानाय्य मम पुरः स्थापितानि । अहं हि कृतकलज्जां परित्यज्य तास्वन्यतमां परिणेयां निर्द्धारयितुमिच्छन्नपि कां निर्द्धारयोयमिति नावगतवान् । यतस्तास्वेकाऽपि कुरूपा नासीत् । यद्येकस्या बिम्बफलो- पमोऽधरो मम मनो लोभयति, तर्ह्यन्यस्यास्तिलपुष्पसन्निभा नासा चेतसि निखातेव लक्ष्यते । अपरस्याः खञ्जनमञ्जुले भावपूर्णे नयने न मामन्यतो गन्तुं दन्तः । अस्मिन्नेवानिश्चयावर्ते पतितोहमचिन्तयम्–“किं क्रियताम्, तिस्रोऽपि स्वस्वविशेषगुणैर्मां लोभयन्ति । कस्मिन्निकषे एताः परीक्ष्य परिणेतव्यां निर्द्धारयेयम्’ इति ।

 इत्थं चिन्ताकुलस्यैव मे सुहृदा मेघश्यामेन तस्य त्रिकालदर्शिनो महात्मनो वृत्तान्तः कथितः । यः खलु महात्मा कार्तिके गङ्गास्न्नानपुण्य- मुपार्जयितुं काश्यां गङ्गातीरे निर्जने कुटीं निर्माय स्थित आसीत् । मया मेघश्यामेन सह महात्मनो निकटे गन्तुं तु प्रतिज्ञातम्, व्यचारयञ्च कं वा तथाविधं प्रक्षं महात्मनः पुर समुपस्थापयेयम्, येन तस्य महात्मनाम- धारिणः कृत्स्ना वैदुषी त्रिकालदर्शिता चापाऽर्था भवेत् । पाखण्डिता च तस्य प्रकटीकर्ते शक्येत । यदि मया स मृषावादी पाखण्डीति न प्रमाणी- कर्तुं शक्येत तर्ह्यहमात्मनो नामापि परिवर्त्तयेयम् ।

( ३ )

 सायं सप्तहोरावादनात्पूर्वमेवाहं मेघश्यामस्य गोष्टीगृहे,समुपस्थितो- ऽभवम् । सोऽपि सन्नद्ध एवासीत् । मां दृष्ट्वैवोवाच–“किं भोः समागत- स्त्वम् चिन्तितो वा तथाविधः प्रश्नः, यस्त्वया महात्मनः पुरः प्रष्टव्यः ।'

 मयोत्तरितम्-“आम्, निश्चितं मया किं प्रष्टव्यमिति । परंतु तदहं ते नाधुना वक्ष्यामि, महात्मनः पुर एव श्रोष्यसि” । आवां ततः परमनु गङ्गा- तटं प्रस्थितौ, यत्र:सा महात्मनः कुटी आसीत् ।'निशामुखे प्रवहन् तुहि नजडः पवन आवयोर्हस्तपादं बधिरयतिस्म । भगवति भास्वति वर्तमाने सति कुत्राऽपि निलीय निवसन् दोषाकरस्तमन्तर्हितं विभाव्य सम्प्रति स्वानुयायिना ॠक्षगणेन सह गगनमण्डलमधिरुह्य विराजमानो दृश्यतेस्म । पतितपावनी जाह्नवी धीरगत्या प्रवहन्ती पश्यतां नेत्राणि मानसानि च शीतलयति स्म । अहं मनस्येवाचिन्तयम्-पश्यत, अयं महात्माऽस्मिन् प्रचण्डशीते समये गङ्गातटे निवसति शीतवारणाय पर्याप्ता कम्बलादिसामग्री तस्यान्तिकेऽवश्यमेव न भवेत् । किमसौ