पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/10

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
दिव्यदृष्टिः



शीतेन न बाध्यते ? । इत्थं तर्हि किमर्थमनेनदृशमुन्मुक्तं पचुरशीतं स्थानं स्वनिवासाय क्लृप्तम्? । कदाचिदयमस्याभिसन्धिः स्यात् यदी- दृशेनाचरणेन लोके स्वस्य शीतातपसहत्वं निर्द्बन्द्वत्वं च प्रथितं भवेत् ।

 कुटीरस्य समीपमुपगम्य आवां क्षणं तूष्णीं स्थितौ । उभयपार्श्वेऽपि कोपि नासीत् । सर्वथा शान्तिमयता लक्ष्यतेस्म । यत्र दिवसे महान् जनसम्मर्दो भवति तत्रैवेदानीं सर्वधा निर्जनतां दृष्ट्वा किञ्चिदिव साश्च- र्योहमभवम् । किन्तु तत्क्षणमेव स्मृतं मया यत्सार्य समयो महात्मा न कैरपि मिलति, न च किंचिदपि भाषते, सर्वेपि महात्मनो नियममेनं जानन्ति अत एवात्रेदानीं न कोपि लक्ष्यते । ईदृशेऽपि समये आवाभ्यां सह वक्तुमवकाशदानं दर्शनानुमोदनं च नूनमावयोरुपरि महात्मनो विशेषानुग्रह एवास्ति ।

 पुराणं फलकद्वयमूर्ध्वमुखमवस्थाप्य कुटीनिर्मात्रा कुट्यां सामान्यमेकं प्रवेशद्वारं निर्मापितम । कदाचित् शीतवायुप्रवेशपतिबन्धाय, श्वमार्जारागमनवारणाय वा द्वारस्योपयोगश्चिन्तितो भवेत् । मेघश्यामेन तदेव द्वारं किञ्चिदवघट्य शनकैरुक्तम्-“भगवन् ! आवामुपस्थितौ स्वः ।"

कदाचित् स महात्मा तदानीं निरुद्योगः अस्मात्प्रतीक्षापरो वाऽऽसीत् । त्वरितमेवोत्तरमागतम् । “आगच्छत' वत्सौ ! अभ्यन्तरमुपागच्छतम्" ।

कपाटमुद्घाट्य आवामन्तः पूविष्टौ । कपाटं च पुनः पूर्ववत् संवृतम्। मेघश्यामेन भक्तिपूर्वकं महात्मने प्रणामः कृतः । मया तु मेघश्याममनस्तोषं रक्षता तदनुकरणं कृतम् । हस्तावुद्यम्य शुभाशीरभिदधता महात्मना कुटीरैककोणस्थितान्यासनानि निर्दिष्टानि । आवां तत्रोपविष्टौ ।

 मया सामान्यदृशा सा कुटी सत्कृपर्यवेक्षिता । त्वरया निर्मितेव सा प्रतीयतेस्म, तथाऽपि नासुखावहाऽऽसीत् । पञ्चषा जनास्तत्र सुखेनोषितं शक्नुवन्ति स्म । तार्णं छादनम् प्राच्यां दिश्येकं वातायनम्, तस्यैव समीपे महात्मन आसनमास्तीर्णमासीत् । पुरस्तादग्निकुण्डम् दक्षिणपार्श्वे दारुमयी त्रिपादी तदुपरि वेष्टनबद्धं किमपि पुस्तकमासीत् । मया परीक्षकदृशा महात्मन आकृतिरवलोकिता । षष्ठ्यधिकमेव वयः प्रतीतम् । केशाः सर्वेऽपि पलितशुक्ला आसन् । आनाभिलम्बमानं श्वेतकूर्च नितरां शोभते म । आकारो गम्भीर. प्रशान्तश्च । सांसारिकदुःखसुखादिवासनातीतत्वमाकृतौ प्रतीयतेस्म । नेत्रयोः किमपि विद्युद्विलसितनिभं तेजो