पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/11

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
दिव्यदृष्टिः

लक्ष्यते म । येनाहं क्षणं चित्रितोऽभवम्-व्यचिन्तयञ्च-इमे नेत्रे यदुपरि पतेताम् तदभ्यन्तरस्य गुप्तातिगुप्ततममपि हस्यमवश्यमवगच्छेतामिति ।

 ममतु विशेषतश्चिन्तितुमवसर एव नासीत् । उपविष्टं मामवलोक्य स महात्मा मेघश्यामं सद्योऽब्रूत-“वत्स ! त्वया सह समेतः कोऽयं सज्जन ? किमर्थं वाऽत्रागतः ?"

 मेघश्यामेनोक्तरितम्--"भगवन् ! अयं मम सखा ललितकुमारो नाम । वदतो मम मुखाद्भगवतो नामधामनी श्रुत्वा दर्शनार्थमयमायातः"।

 मयाऽपि प्रणम्याभिहितम्-“श्रुतं मया यदचिरादेव भगवता इतः प्रस्थास्यत इति, अत स्वनयने सफलीकर्तुमहमप्युपस्थितोऽस्मि ।"

 मया एते शब्दा महात्मनो विषये समादरं प्रदर्शयितुम्, तस्य चेतसि मद्विषये कापि विपरीतभावना च नोपतिष्ठतामित्यर्थ च सविनयमुच्चारिता आसन् । परन्तु मया दृष्टम्, ममैतैश्चाटुवचनैर्महात्मा न प्रसीदति स्म । स यथा पूर्वमेव गभीरः प्रशान्ताकृतिश्चालक्ष्यत । सोऽब्रूत-“भवादृशां विदुषामनुग्रहोऽयम यद्भवद्भिर्ममकुटी पवित्रीक्रियते । कथयत,भवतां कीदृशी सेवा मया कर्तुं' शक्यते?"

 कदाचिदस्मदागमनेन महात्मनः प्रसन्नता नासीत् । सम्भवतः स शीघ्रतयैव किञ्चिद्वार्तालापं विधाय आवां प्रस्थापयितुमैच्छत् । व्यर्थमधिक वागाडम्बरस्तस्याप्रिय आसीत् । प्रायः संसारविरक्तानां साधूनामीदृशः स्वभावो भवति । मयाऽपि विचारितम्-यद्येवम् तर्हि व्यर्थं चाटु वचनैः को लाभः ? स्वप्रयोजनं साधयितव्यम् । इदमेवात्र परीक्षणीयम्, यदसौ वास्ताविको महात्मा, काषायवस्रान्तरितः कोऽपि पाखण्डी वा ? वस्तुस्वरूपं परीक्ष्येतः प्रस्थातव्यम्, आवाभ्यामपि किमर्थमधिकं कालक्षेप क्रियताम् ?

 भूनिहितशिरसा साञ्जलिना मयोक्तम्-“भगवन्! मदागमन कारणमत्यन्तं क्षुद्रं स्वार्थमयं चास्ति । श्रुतमस्ति मया, यद्भगवता इहागमनात्प्रभृति बहूनां भाग्यवतामिच्छाः पूरिताः, कठिनाः शङ्काश्च समाहिता । ममापि चेतसि लोभः प्रादुरभूत् यदहमपिं भगवतसमीपमुपस्थाय निजभविष्यदर्थेषु कतिपयानर्थानवगन्तुं द्वित्रान् प्रश्नान् पृच्छेयम् । लभेय च तेषामुत्तराणि, यद्यनुमन्येत सानुकम्पं भगवता ।”