पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/34

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१
दिव्यदृष्टिः

भीष्टं विवाहं घटयिष्यतीति । इत्थं विचिन्तयतो मम काश्यागमनाद्परेऽहनि मात्रा सह रहसि वक्तमवसरः समुपनतः ।

 मया साहसपूर्वकमुक्तम्--“मातः ! मम हि विवाहविषये किंचिद्वक्तव्यमस्ति ।”

 सा साश्चर्यं जगाद्–“किं वत्स ! किमस्ति वक्तव्यम् ? ”

 मयोक्तम–“त्वया निश्चितं मम विवाहमुद्दिश्वयैव किंचिद्विवक्षामि । ”

 सा जगाद-“विवाहमुद्दिश्य किं विवक्षसि रे, किं पुनर्नकारपिशाचिका स्वामुपारूढा ?”

 अहमगदम्–“न हि, न हि, नकारपिशाचिका नोपारूढा । इदमहं विवक्षामि, भवत्या निद्धारितया कन्यया सह न मया विवाहः कर्तुमिष्यते ।”

 सा साश्वर्यमपृच्छत्–“किं कारणं वत्स ! किं त्वया तस्या विषये कश्चिद्दोषः श्रुतः ? मया तु तस्याः कुलशीलादिकं सम्यकपरिशीलितमस्ति । सा त्वतीव सुशीला वर्तते । किं कारणं तर्हि तव निषेधस्य ?”

 अहमवद्म्-“ न हि न हि, तस्या न कश्चिदपि दोषो गुणो वा मया श्रुतः । वास्तविकी कथा त्वियम्-मया काऽप्यपरा कन्या स्वयं निश्चिताऽस्ति ।”

 माता ममैतेन कथनेन नभसः पपातेव । सविस्मयं चाहस्म “ वत्स ! ललित ! कथय, कथमिदं सम्पन्नम् । त्वं तु पूर्वं विवाहप्रस्तावमपि नाभ्यन्वजानाः, इदानीं स्वयमेव कन्या निश्चेतुमपि प्रवृत्तोऽसि । साम्प्रतिकानां यूनां पित्रोरपेक्षैव न् भवति पठित्वा लिखित्वा च ते तथा चतुराः सम्पद्यन्ते, यथा पत्नीनिर्वाचनमपि मात्रा पित्रा वा कृतं नानुमन्यन्ते । अस्तु कथय, का कीदृशी च कन्या त्वया निश्चिता ?”

 मया लज्जमानेनोक्तरितम -“अत्रत्यैव सा कन्याऽस्ति । अस्माकं सजातीयैव । मया लवपुरात्परावर्तमानेन धूमशकट्यां सा दृष्टा । दशाश्वमेधवीथ्यां निवसतो नारायणप्रसादस्य सा कन्या किल ।”

 माता मुहूर्तं साश्चर्य' मन्मुखं निरैक्षत । ततः परमुच्चैर्जहास अहं तु मातरमकारणं हसन्तीं दृष्ट्वा बाढं सम्भ्रमे न्यपतम् । मम कथने हि किमपि हासकारणं नासीत् । अथ मम माता ततस्त्वरितमुत्थाय स्वप्रकोष्ठं गत्वा तत एकं चित्रफलकमानीय मम हस्ते दत्वा सस्मितमपृच्छत् - “किमेतां कन्यामुद्दिश्वयैव त्वं ब्रवीषि ! ”

 आश्चर्यातिरेकादहं किञ्चिदपि वक्तुं न प्राभवम्। मया दृष्टम्, तच्चित्रफलकं तस्या एव तरुण्या आसीत्, या मया धूमशकट्यां, महात्मनः