पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/33

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
दिव्यदृष्टिः

रिचितेन युवकेन सह सहसा सम्भाषणमनुचितमवधारितं स्यात् । अत्रान्तरे तस्या विषये मया प्रायः सर्वमपि ज्ञातम् । ते द्वे अपि काशिके एवा स्ताम् । युवतिः प्रौढाया भागिनेय्यासीत् । प्रौढा च “इटावा”यां निवसति । युवतिश्चिराद् दृष्टां मातृष्वसारं सम्भावयितुं “इटावां”गताऽऽसीत्। “काश्यां तव विवाहो निश्चितः त्वरितमागम्यताम्” इति पित्रा प्रहितं विद्युत्सन्देशमवाप्य मातृष्वस्रा सह काशीं गच्छति । आगामिषु विवाहमुहूर्तेषु तस्या विवाहो भविष्यति । वरः काशिक एव कश्चिन्निर्धारितोऽस्तीति ।

  युवतिं सम्यङनिर्वर्ण्य मया निश्चयेनावगतम्-सैवेयं युवतिर्या मया मृत्खण्डे दृष्टासीत् । मृत्खण्डदृष्टतदाकृत्यपेक्षया वास्तविकीं तदाकृतिं शतगुणसौन्दर्यामवालोकयम् । सर्वभावेन तस्यां समाकृष्टश्चाभवम् ।

  मया मनसि चिन्तितम्-“तस्य महात्मनः कथनानुसारमन्यत्सर्वं सम्पन्नम् । तदेवेदं धूमशकटीविश्रामधाम, सैव चेयं सुन्दरी, परं त्वस्या विवाहः काशिकेनैव केनापि वरेण निश्चितोऽस्तीति श्रृणोमि । किमेतावत्पर्यन्तं सर्वमपि महात्मवचनं सत्यं सम्पन्नम् , मुख्यफलं एव मम दौर्भाग्यात्तद्विसंवदेत किम् ? यद्यनया तरुण्या सह मम विवाहो न सम्पद्येत, निश्चयेनाहं तं महात्मानं पाखण्डिनमाकलयेयम् ।” इति ।

  “इटावा”तः कर्णपुरपयन्तं पन्थाः सुखेनातिक्रान्तः । पुनरहमचिन्तयं चेतसि-अस्याः पितुर्नामधामादिकं मया ज्ञातमेवाऽस्ति । स काश्यामेव वसति । तथा कोऽपि प्रयत्नो विधेयः, यथाऽस्याः पिता मयैव साकमस्या विवाहमारचयेत् । भवतु, मातरं तावदुद्योजयिष्यामि । यथा तस्य महात्मनो वाणी सर्वथा सत्या प्रमाणिता भवेत् तथैव मया प्रयतनीयम् ।

  इत्थं चेतसि चिन्तयन्नेवाहं यथासमयं कर्णपुरे समवातरम् । अवतरणसमये पुनरपि तस्यास्तरुण्याः पितुर्नाम निवासस्थानं च पृष्टा सा प्रौढा निःशङ्कं तत्कथयतिस्म । सा तरुण्यपि सलजैः कटाक्षबीक्षितैर्मां प्रैक्षत । तद्विषयेऽहं कीदृगुत्कण्ठितोऽस्मीति सा कथं जानातु ।

 अस्यापि वृत्तान्तस्य सम्पन्नस्य बहून्यहान्यतीतानि । सा तरुणी सा प्रौढा च न मे स्मृतिपथादपासरताम् । ततः परमेकमासानन्तरमहं स्वगृहं काशीं प्रत्यागमम् । मया विचारितं चेतसि-यन्मार्गे दृष्टायास्तरुण्या विषये सर्वमपि मातुरग्रे प्रकटनीयम् कथनीयं च-यदनयैव साकमहं विवाहं करिष्यामि नान्यया । इत्थं च मम माता येन केनाप्युपायेन ममा-