पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/32

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९
दिव्यदृष्टिः

इव । पश्यत एव मे सा युवतिर्मयाऽधिष्ठितपूर्वं द्वितीयश्रेणिकं प्रकोष्ठमेवारोहतिस्म । सा एकला नासीत् तया सह समुज्ज्वलनेपथ्या काऽप्यपरा प्रौढा योषिदपि तमेव प्रकोष्ठमारुरोह । तयोः पश्चादेकोऽनुचरः शिरस्यायसीं मञ्जूषां, करे चर्मपेटिकां च वहन् तत्रैव जगाम । अहं प्रवेशद्वारोपकण्ठं स्थित्वा ते निरवर्णयम् । अनुचरेण लौहमञ्जूषातूपरितनपट्टिकायां निहिता । स्रस्तरं विस्तारितम् । मृत्कुम्भे च पानीयमापूरितम् । दर्शनेन ते उभे अपि सत्कुलीने प्रत्यभाताम्। यतः सा युवतिः परिहृत्यावगुण्ठनदम्भं तत्र निःशङ्कमतिष्ठत्, ततः सा शिक्षिता नव्यमतानुगा चाऽऽसीदिति निर्विवादमेव ।द्वितीयश्रेणिकप्रकोष्ठारोहणात्तस्या धनिकताऽपि निश्चितैवासीत् । अत्रान्तरे धूमशकटीप्रस्थानसूचकः कलचीत्कारः श्रूयतेस्म । अहमपि सलज्जं सभयंच प्रकोष्ठान्तः प्रविश्य स्वस्थाने समुपाविशम् । मम नेत्रे हठात्तामेव सुन्दरीमन्वधावताम्। मृत्खण्डे दृष्टाया आकृतेस्तया सह सर्वात्मना संवादं दृष्ट्वाऽभूतपूर्वमाश्चर्यमहमन्वभवम् । चिराय तन्मुखनिर्वर्णनमसभ्यतास्पदं भवेदिति मया स्वोपबर्हतले निहितं तद्दिनस्य संवादपत्रं मुखाग्रे धृतम् । अत्रान्तरे युवत्याः सहचरी प्रौढा योषिन्मदन्तिकमेत्य मामपृच्छत्-“महाशय ! उपरितनपट्टिकायां निहितं वस्तुजातं भवत एवास्ति किम् ?मया स्वीकारसूचकं शिरःकम्पं विदधता “आम्, तन्ममैवाऽस्ति” इत्युत्तरितम् । भूयः सा पप्रच्छ-“कुत्र गन्तव्यमस्ति भवतः !' तां निःसङ्कोचं भाषमाणां दृष्ट्वा मयाऽपि लज्जाकरणमनुचितमवधार्य निर्भयं प्रतिभाषितुमारब्धम् । कदाचिदस्मिन् संलापे तस्यास्तरुण्या नामधामादिकं विवाहितत्वाविवाहितत्वं च ज्ञातं भवेत्।, मयोत्तरितम्–“कर्णपुरमहं गच्छामि ।”

  साऽबूत-“ओः......तर्हि भवान् प्रथममेवावतरिष्यति। आवयोस्तु काश्यां गन्तव्यमस्ति ।'

 साश्चर्यस्य मम मुखाद्कस्मान्निगतम्-“ किं काश्याम्...!”

  तया पृष्टम्-“काशीनाम श्रुत्वैव किमिति विस्मितो भवान् ?”

  यद्यपि प्रौढयैव साकं ममैष संवादः प्रचलन्नासीत्, तथाऽपि सा युवतिरपि मध्ये मध्ये सलज्जां दृशं मयि क्षिपन्ती संवादे दत्तकर्णऽतिष्ठत् । मयोत्तरितम्--“विस्मयस्य हेतुरयमेव, यदहमपि काश्यामेव वसामि । तत्रैवास्ति ममाऽपि गृहम् ।” ततः परं प्रौढया सह चिराय मम वार्तालापोऽभवत्। संवादे कदाचित्सा युवतिरपि मध्ये मध्ये किंचिद्वभाषे-किन्तु मया साकं न हेि, तयैव प्रौढया साकम्। शिक्षितयाऽपि तया सर्वथाऽप-