पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/31

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८
दिव्यदृष्टिः

सीत् । तत्र व्ययस्तु भूयान् जातः, परन्तु यात्रा सुखेन समपद्यत । एतावत्पर्यन्तं मम प्रकोष्ठ अहमेवैकल आसम् । शकटी ‘टुंडला' स्थानमुपागता, ततः ‘शिकोहाबादम्’ । ‘भिंड' स्थाने क्षणं विश्रम्य ततः परं 'इटावा'माजगाम शराकटी । अत्र विंशतिकलामितं कालं शकटी स्थास्यतीति विदित्वा अहमवातरम् । इतस्ततो दत्तदृष्टिः पुरः प्राङ्गणे पर्यटितुमारभे ! विहङ्गमदृशा एकवारं तत्सकलं धूमशकटीविश्रामधाम सपूर्वापरं पर्यवेक्षे च । इत्थं परिवीक्षमाण एवाहमकस्माच्चकितोऽभवं चेतसि । इदं स्थानं तु मम परिचितमिव प्रतिभाति । अचिरेणैवेदं दृष्टं स्मरामि ।परन्त्वहमनेन पथा न कदापि पूर्वमागत इति तु निश्चितम्। ओः “स्मृतम्, स्मृतम्। स्मृतिमात्र एव मम तादृगपरिमितमाश्चर्यं समुद्भूत् यथा तस्मिन् महति सम्भ्रमे क्षणं मम हृदयमपि निःस्पन्दतामगाहत । मया परिचितम् तदेवेद स्थलं, यन्मया तस्य महात्मनः प्रसादेन काचगोलतामापन्ने मृत्खण्ड दृष्टमासीत् । निःसन्देहं तदेवेदं स्थानम्, पुर: प्राङ्गणे सैवेयं प्रकोष्ठपङ्क्तिः, स एवायं पंक्त्यन्तरगामी सेतुः, तदेवेदं सकलम्, यन्मयातदानीं सकुतूहलमवलोकिमासीत् । अहो कीदृशीय तस्य महात्मनोऽचिन्त्या शक्तिः, सत्यम्, साधुवो हि कर्तुमकर्तुमन्यथाकर्तुं समर्था भवन्तीति । यथेदं दृश्यं सत्यस्वरूपेण मम पुरः समुपस्थितम् ? तथैव तदपि दृश्यं-सा सुन्दरीलोकोत्तरसुषमाशालिनी सा बालाऽपि किं मत्यस्वरूपेण मम पुरः समुप तिष्ठेत ? महात्मनो वचनस्यैकोंऽशस्त्विदानीं पूर्णः, अपरोऽपि किमिति न पूर्णो भवेत् ?

  यावदहं सकौतुकं सोत्कण्ठं च प्राङ्गणस्येतस्ततो दत्तदृष्टिः पश्यामि, तावदेव मम दृष्टिः पंक्तयन्तरगामिनः सेतो; सोपानमार्गे सहसा निरुद्धाऽभूत् । तत्र यदृश्यं मया दृष्टं, तेन भूतलात् दूरमहमुच्छलित इवाभवम् । क्षणं मोहो मा मावृणोदिव । सत्यमेव निरुद्धा हृदयगतिः । अक्ष्णोरण्यविश्वासोऽभूत् । मया समुच्छलता चेतसा विस्फार्य नयने च सम्यङ्निर्वर्ख्य दृष्टम्-सैव सुन्दरी मदभिमुखमायान्ती प्रतीयतेस्म, या मया महात्मनः कुट्यां काचगोले दृष्टपूर्वाऽऽसीत् । मया पुनः पुनर्नयने प्रमृज्य विस्फार्य च सा निर्वर्णिता । सैवाऽऽसीदिति निश्चयेनावगतम् । सैव पीताभा शाटी, सैव गजगतिः, ते एव विशाले नयने सैव किश्चित्तिरश्चीना नासा, स एव चात्यन्तपाकद्रवद्द्राक्षासपक्षोऽधरोष्ठः । कुत इयमुपागता ? किमहं स्वप्रवृत्तं पश्यामि, सत्यमेव वाऽसौ सुवर्णप्रतिमा ममाभिमुखमुपागच्छति? सहसा मम सर्वा अपीन्द्रियवृत्तयो नयनपथमवतीर्णा