पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/35

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
दिव्यदृष्टिः

कुटीरे मृत्खण्डे च दृष्टाऽऽसीत् । मया कम्पमानस्वरेण पृष्टम्-“मातः ! इदं चित्रफलकं तवान्तिके कुतः समागतम् । किं त्वमेतां कन्यां जानासि ?”

  सा सशिरःकम्पं बभाषे–“आम, अवश्यमहं जानामि, यद्यहं न जानीयाम्, को वाऽपरो जानीयात् । अनयैव सह मया तव विवाहो निश्चितः । त्वां दर्शयितुमेवेदं चित्रफलकं मयाऽऽनायितमस्ति । मया पत्रेऽपीदमेव लिखितमासीत् । किं न स्मरसि ?”

  किमहं वदेयम् कथं वा सर्व वृत्तान्तं निवेदयेयम्-यदेकवर्षादिमां तरुणीमहं हृदये धारयामीति । परन्तु अयमद्भत: संयोगः सम्पन्नः , महात्मनो वाणी कथं सर्वैरङ्गैः सत्या प्रमाणीभूता । किमियं भगवतः कृपा, उत मम सौभाग्यम अथवा महात्मनः सिद्धिप्रभावः ?....

  मम विवाहस्तयैव कन्यया सह सम्पन्नः । मया बाढमवगतम, यन्महात्मना कथितं दर्शितं च सर्वमक्षरशः सत्यमिति । तत्राल्पीयानप्यशो न मिथ्याभूतः। कया शक्तया केन बलेन महात्मनेदं कथितं दर्शितं चेति तु नाहं मनागपि जानामि, स महात्मा च न पुनर्मया दृष्टः । अन्विष्यापि न लब्धः । गङ्गातटं परित्यज्य गतस्य तस्य भूयान् कालोऽतीतः । ततः प्रभृति धर्मकर्मादेः पाखण्डताकथनं मया परित्यक्तम् । साधुषु महात्मसु च मम चेतसि श्रद्धा समुद्भूत् । इदं च मयाऽवगतम् यदस्मिन् संसारे यद्यपि बहवः पाखण्डिनः सन्ति, तथाऽपि केऽपि विरलाः सत्यसिद्धा महा मानोऽपि सन्ति । शास्त्रमीश्वरो धर्मकर्मादि च सर्वमपियथार्थमस्ति ।

  कदाचिन्मेघश्यामः तां घटनामधिकृत्य मां पृच्छति-“किं रे ललित ! अपि विश्वसिषीदानीं साधुमहात्मसिद्धेषु ?”

  अहमुत्तरयामि-‘अवश्यं विश्वसिमि, यदि ते वास्तविका महात्मानो भवेयुः । कृतकसिद्धेषु तु न मे विश्वासः ।”