पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/29

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६
दिव्यदृष्टिः

गामिनि प्रथमे विवाहमुहूर्त एव मम विवाहस्तयाऽवश्यं कर्तव्यत्वेन निर्द्धरित इति च ।

 महात्मनः कुट्यां मेघश्यामेन सह गमनम्, तत्र महात्मनः प्रभावादद्भुतदृश्यावलोकनं च नाहं व्यस्मार्षम् । न च विस्मर्तुमपारयम् । केवलं कौतुकेनैव मया तदानीं तत्र गतमासीत् । अविश्वासेनैव तदुक्तमाकर्णेितम् । परन्तु यतः प्रभृति महात्मन उक्तिषु एकस्यांशस्य सत्यता बाढमनुभूता, ततः प्रभृति महात्मनो विषये मम हृदये काऽपि श्रद्धा समुद्भूत् । ईदृशाः सिद्धपुरुषाः प्रविरला एव दृश्यन्तेऽस्मिन् संसारे । सौभाग्येनैव तथाविधानां समागमो भवति, सांसारिकेष्वपि विरला एव तथाविधान् सिद्धान् परिचिन्वन्ति। ते हि अकस्मादेव कुतोऽप्याविर्भवन्ति, अकस्मादेव च कुत्रापि प्रगाढे तमसि निलीयन्ते । स गङ्गातटवासी महात्मा इदानीं कुत्राऽस्तीति को वेद ? एवं वर्षानन्तरं या कन्यया सह मम विवाहस्य भावित्वं तेनोक्तमासीत् तत्सत्यं भवेन्नवेत्यनुभवितुं बाढमासीन्ममोत्कण्ठा। तस्य कुटीरे काचतामापन्ने तस्मिन् मृत्खण्डे यद् दृश्यं मया दृष्टमासीत्, जीवन्त इव चेष्टमाना ये वाऽऽकृतिविशेषास्तत्र मया दृष्टपूर्वास्ते खलु मम हृदये निखातप्राया इवासन् । तन्मुखम्, ते नेत्रे, सा शुकचञ्चुनिभा नासा , स च अत्यन्तपाकद्रवद्द्राक्षासमकक्षोऽधरः, किमेतानि विस्मर्तुं शक्यानि ? चतुरादपि चतुरश्चित्रकारो नेदृग रूपं निर्मातुं शक्नोति । किमेतादृशी सुन्दरी कापि ध्रियते, उत महात्मनः कल्पनाविजृम्भितमेवैतत् ? अस्तु द्रष्टव्यम् ! एकवर्षात्मको न भूयान् कालः । यतस्तस्यैकं वचनं सत्यमभूत् तत परमपि सत्यं भवेदिति बहुशः सम्भाव्यते ।

 अतीताः कतिचिन्मासाः । मम विवाहकथाऽवसानस्य, धनपतिप्रसादनिधनस्य, यन्त्रालये प्रधानाध्यक्षपदे च मम कार्यं कुर्वतश्च पञ्चषा मासा व्यतीयुः । मम हृदये च आशानिराशे परस्परमयुद्धयताम्। एवमेव भूयोऽप्यतीतः कश्चित्कालः । परंतु मया मृत्खण्डे दृष्टं तद् दृश्यं, सा सुन्दरी च न मनागपि विस्मृता । ततः परमकस्मादेकस्मिन् दिने निजेन वास्तविकरूपेण तद् दृश्य-महात्मनः प्रसादान्मृत्खण्डे दृष्टम-मम पुर स्वयमुपस्थितम् । कदा-कथं च,-तदेवाहमग्रे वर्णयामि ।

(५)

 यन्त्रालयविशेषकार्यवशान्मम लवपुरे गन्तुमापतितम्। कर्णपुरात्प्र स्थानात्पूर्वमेव मया मातुरेकं पत्रमधिगतम् । तत्र लिखितमासीत्-