पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/28

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५
दिव्यदृष्टिः


 मयोक्तम्-“तात ! विवाहस्तु यदा कदाऽपि भवितुं शक्नोति, परंतु मृत्युशय्यां गतो मनुज शुभाशुभकार्यं न प्रतीक्षते । ईश्वरो येन पथा चालयति तेनैव पथा गन्तव्यं भवति । यद्यस्मिन्नवसरे नाहं तत्र गच्छेयम् तर्हि कर्तव्यभ्रष्टो भवेयम्, कदाचिदाजीविकामपि हापयेयं च”।

 तातोऽब्रूत–“एवं तर्हि त्वरितं गम्यताम् । मध्याह्नोत्तरगामिना धूमशकटेन गन्तुमर्हसि । तत्र गत्वैवाखिलमुदन्तं मे सूचय । यदि श्रेष्ठिन आरोग्यलाभो भवेत्तर्हि वरमेव, त्वरितमेव ततः प्रत्यागमिष्यति सः । यद्यन्यथा भवेत्तर्हि तदपि सकलं सूचय ।”

 तस्मिन्नेव दिनेऽहं कर्णपुरं प्रातिष्ठे । यन्त्रालयप्रधानकार्यालयं गत्वैव सर्वं वृत्तमवगतम् । श्रेष्ठी धनपतिप्रसादः कमप्यागन्तुकं सुहृदं यन्त्रालयं दर्शयन्नेव दुर्भाग्यादनवधानतया प्रचलति यन्त्रे पतितः, यद्यपि तत्कालमेव यन्त्रगतिर्न्यरुद्ध्यत, तथाऽपि यन्त्राग्रकरपत्रैस्तस्य द्वावपि चरणौ विच्छिन्नौ । वैद्यैर्जीविताशा परित्यक्ता, श्रेष्ठिनं मां च विहाय न कोपि यन्त्रविशेषज्ञ आसीदित्यग्रिमकार्यनिर्वाहाय श्रेष्ठिपुत्रेणाहं तन्त्रीसन्देशद्वारा समाहूतः । सर्वोऽप्ययं वृत्तान्तो मया ताताय निवेदितः, इदं चापरं लिखितम् , यन्मम शीघ्रं प्रत्यावर्तनं न सम्भवेत् । एकादशदिनानि यावन्मम स्वामी जीवननिधनयोरन्तर्लम्बमान आसीत् ।यावन्मानवबुद्धेर्बलमस्ति विज्ञानेन च यावन्त उपाया आविष्कृताः सन्ति, ते सर्वेऽपि कुबेरकल्पेन कुबेरप्रसादेन निजपितु कृते प्रयोजिता । पानीयमिव द्रव्यं प्रवाहितम् । मृत्युमुखात्तमाच्छेत्तुं काऽपि चेष्टा नावशेषिता । परन्तु दुर्भाग्यं सर्वोपरिष्टादासीत् । द्वादशे दिवसे श्रेष्ठिनः प्राणाः प्रतस्थिरे।

 ततः परं कतिपयदिनानि महता सङ्कटेनातिवाहितानि । कियन्तः कीदृशाः प्रबन्धाः कर्तुमापतिता इत्यादि वर्णनमनुपयुक्तमिति न करोमि । पायः सार्द्धमासात्मकः कालस्तस्मिन्नेव सम्भ्रमेऽतिक्रान्तः । श्रेष्ठिपुत्रो निसर्गतश्चतुर आसीत् । पितरि जीवत्येव तेन कार्यालयस्य बहुलः कार्यभारः स्वायत्तीकृत आसीत् । अथेदानीं मम मन्त्रणानुसारेण तेन सर्वोऽपि प्रबन्ध आमूलान्नवीकृत । अहं च प्रधानाध्यक्षपदे नियुक्तः ।

 अत्रान्तरे मया काश्यां न गतम् । तातस्य तु प्रतिसप्ताहं कुशलपत्राण्यायान्तिस्मैव । मेघश्यामस्य पत्रेण मयाऽवगतम् , यन्मदर्थं निर्द्धारितस्य कन्यात्रयस्याप्यन्यत्र विवाहः संवृत्त इति । न च तेन मम स्वल्पोऽपि विषादः समजनि । मेघश्यामेन स्वपत्रे इदं चान्यल्लिखितमासीत्, यन्मम माता मम विवाहार्थं पुनरपि सर्वात्मना प्रयतमानाऽस्तीति । वर्षानन्तरमा-