पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/27

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
दिव्यदृष्टिः

साधयिष्यते ? किं च स्वामिपुत्रेण कुबेरप्रसादेन चाहमेव तत्राऽऽहूतोस्मि।” माताऽब्रूत-“तर्ह्यत्र किं भवेत् ? विवाहप्रबन्धः सर्वोऽपि सिद्धोऽस्ति,निश्चिते मुहूर्ते न चेद्विवाहः सम्पद्येत, वयमत्र मुखं दर्शयितुं न शक्ष्याम । तव गमनं बाढमावश्यकं चेद्विवाहानन्तरं चतुर्थेऽहनि गमिष्यसि ।”

 मयोक्तम्—“अम्ब ! यथा त्वमादिशसि तथैव चेत्कर्तुं शक्नुयाम् , बाढं प्रमोदेय, परन्तु विचारय, तन्त्रीसन्देशे लिखितमस्ति, “मम स्वामी सातिशयं रुग्णोऽस्ति, रोगमुक्तेराशा नास्ति” इति । इत्थगते व्यतिकरे विवाहार्थमत्रावस्थानं मम शोभेत किम्, यस्य स्वामिनो मयाऽद्य यावल्लवणं खादितम्, मृत्युशय्यां गतेन तेनाऽऽहूतोऽहंचेद्विलम्बेय, उभयलोकभ्रष्टो भवेयम् । त्वमेवेत्थं सकलं विचार्य समुचितं समादिश मे कर्तव्यम् ।” माता तूष्णीमास । किं वा सा भणेत् ? तूष्णीं स्थिताया अपि तस्या वदनविकारैर्मया तन्मनोगतमवगतम् । सा किल चिरान्मम विवाहविषये प्रयतमानाऽऽसीत् । एतावत्पर्यन्तमहमेव विवाहप्रतिबन्धको ऽभूवम् । अथ कथं चिन्मयाऽभ्युपगते विवाहप्रस्तावे सज्जे च सकले सम्भारे इदमपरमतर्कितं प्रबलं प्रतिबन्धकमुपस्थितम् । तस्या अक्ष्णोरश्रूण्युपस्थितानि । अहं कथंचित् हृदयमवष्टभ्य स्वकीयं पूकोष्ठमुपागाम् । तत्र आरामवेत्रासनेऽर्द्धशयानो व्यचिन्तयम् - “पश्यत, कथमाकस्मिकी दुःखदेयं घटना समुपस्थिता। मुहूर्तात्पूर्वं मया इदमित्थं भावीति स्वप्नेऽपि न चिन्तितमासीत् । मेघश्यामेन सह केवलं कौतुकबुद्धया तस्य महात्मनः सन्निधिमुपगम्य यत्तस्माच्छ्रुतम्, तदिदानीं सत्यमिव प्रतीयते । नून तस्मिन्नस्ति कापि विशेषशक्तिः । किमहं तं पुनरुपगम्य मम स्वामिनो विषये पृच्छेयम् । परन्तु तेन पुनर्दर्शनं निषिद्धमस्ति । किं कुर्याम् ?”

 अत्रान्तरे तातेनागतस्य सर्वोऽप्युदन्तः श्रुतः । मम स्वामिना धनपतिप्रसादेन सह तातस्य चिरन्तन सौहार्दमासीत् । स्वामिनो रुग्णतावृत्तान्तेन तातस्य चित्तं परं व्यथितं बभूव । तेन विधूय मोहं, विवाहसम्भारव्यर्थतामप्यविचिन्त्य स्पष्टमेवाहमभिहितः-“वत्स ! ललित ! त्वं जानास्येव, यद्विगतमासद्वयात्प्रभृति तव विवाहविषये प्रयत्यते, पर्याप्तमत्र धावितं परिश्रान्तं च, द्रव्यमपि पुष्कलं व्ययीकृतम् । किञ्च तव माता तव विवाहविषये कीदृगुत्कण्ठितास्तीत्यपि तव नाविदितम् । अस्मिन्वा वारे तच्छुभकर्माऽकृत्वा सा न तूष्णीं स्थास्यति । इत्थमपि तव कर्तव्यमप्यहं वेद्मि । यदि त्वं साम्पतं विवाहविचारं परित्यज्य कर्णपुरं जिगमिषसि तर्हि नाहं त्वां प्रतिरोद्धुं शक्नोमि ।”