पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/26

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३
दिव्यदृष्टिः

महात्मनो वचनं मे स्मृतिपथमायातम् । तेन हि कथितमासीत् –“कृतेऽपि प्रबले समुद्योगे न भवेत्ते विवाहः यतस्तस्यावसरो नाधुना प्राप्तः” इति । तत्किमेष-तन्त्रीसन्देशः किमपि विघ्नरूपं धृत्वा समागतः ?

  इत्थं स्वमनो दौर्बल्यं कलयित्वा ऽहमहसम् । स्वमनोभावान् गोपायन्नेव मातरं पृष्टवांश्च-“किं मातः ! तातो गृहे नास्ति किम् ?”

  साऽब्रवीत्-“नहि वत्स ! महति प्रत्यूषे त्वय्यनुत्थिते एव विवाह मुहूर्तविषये समालपितुं ते दैवज्ञसमीपं गताः सन्ति ।”

  अहमुत्थाय बहिरागमम् । हस्ताक्षरं कृत्वा तन्त्रीसन्देशमादाया ऽवाच यम् । तत्र लिखितमासीत् -

  “पिता गतदिनमारभ्य सविशेषं रुग्णोऽस्ति, रोगमुक्तेराशा नास्त्येव सन्देशं प्राप्यैव त्वरितमागम्यताम् ”

कुबेरप्रसादः ।

  स तन्त्रीसन्देशो मन्नाम्न्ना मम स्वामिनः कर्णपुरवस्त्रयन्त्रालयाध्यक्षस्य धनपतिप्रसादस्य पुत्रेण कुबेरप्रसादेन प्रेषित आसीत् । श्रेष्ठिनो धनपतिप्रसादस्य किमकस्मात्सञ्जातम् ? यदाहं मासिकमवकाशमाप्य ततः प्रातिष्ठे, तदा हृष्टपुष्टो नीरोग आसीन्मम स्वामी उक्तं चासीत्तेन - “ललितकुमार ! यावच्छक्यं शीघ्रमेव परावर्तस्व जानाम्येव नास्ति त्वामृते ऽन्योऽत्र यन्त्रविशेषज्ञ इति । यान्त्रिकी दुर्घटना वा काचित्सञ्जाता ? कस्मिन्नप्यसाध्ये व्याधौ वा ग्रस्तो मम स्वामी ?

  इत्थं विचिन्तयन् शिरोविन्यस्तहस्तोऽहं तत्रैव क्षणमतिष्ठम् । मम स्वामिनो धनपतिप्रसादस्य सौजन्यमनुजीविवत्सलतां दयालुतां गभीरतां कार्यकौशलं शिष्टतां च चिन्तयतो मम नेत्रे बाष्पपूरमवर्षताम् । मां चिरयन्तं वीक्ष्य प्रतीक्षमाणा मे माताऽभ्यन्तरप्रकोष्ठादेव मामुच्चैः प्रपच्छ - “ वत्स ! केन प्रेषितो वैद्युतः सन्देशः ? कुतो वा समागतः ?” अहं गद्गदस्वरेणोत्तरितवान्-“मातः ! अहमभ्यन्तरमागच्छाम्येव ।” अहमात्मानमवष्टभ्य मातुः समीपं गत्वा तस्यै तन्त्रीसान्देशवृत्तं सर्वं न्यवेदयम् । सा साश्चर्यं सचिन्तं च जगाद्-“इदमनवसरं घोरमनिष्टमुपस्थितम्, त्वं त्विदानीं तत्र गन्तुं नार्हसि कमपरं तत्र प्रेषयिष्यसि !” मयोक्तम्- ‘ममैव स्वयं तत्र गन्तुमत्यन्तमावश्यकम् । यन्त्रालये मां स्वामिनं च विहाय नास्ति कोऽपि विशेषज्ञः, अन्येन केनापि तत्र गत्वा किं