पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/25

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
दिव्यदृष्टिः

दृष्ट्वाऽपि त्वं कथयसि, स “मेसमेरिजम” नामक त्राटकविद्यां जानातीति । अस्तु स किमपि जानातु न वा, अल्पैरेवाहोभिस्तस्य कथनं सत्यमसत्यं वेति ज्ञास्यसि ।”

  अहमवदम्-“हुम्, सत्यमिदम्, दशपञ्चदिनैरेव तस्यैकं कथनं मृषेति प्रमाणीकृतं भवेदेव ” । तेनोक्तम्-अधुना ते विवाहयोगो नास्तीति, तदपि विवाहे सम्पन्ने वितथं भवेदेव । तदानीं तद् दृश्यं मया सत्यमित्येवावगतम् । परन्तु सम्प्रति सा तस्य मायाविनो मायैवासीदिति चिन्तयामि । कस्यापि पुरः स्वमायाबलेन काल्पनिकं चित्रमेकमुपस्थापयितुं स समर्थोऽस्तीत्यहं मन्ये । परं तु तेन प्रदर्शितं चित्रं सत्यमस्ति, भविष्यज्जीवनेन सह तस्यास्ति सम्बन्ध इति तु नाहं विश्वसिमि । दशपञ्चदिनैरेव तस्य वचसां सत्यत्वमसत्यत्वं वा स्वयमेव ज्ञातं भवेत् । तस्य सिद्धत्वं त्रिकालदर्शित्वं महात्मत्वं च समय एव समर्थयिष्यति । तस्मिन् पुरुषे वर्तते कोऽपि विशेषगुण इति तु स्वीकरोमि ।”

  मेघश्यामो ऽब्रूत- “वरम्, भवता एतावदपि स्वीकृतम्, कदाचित्समय इतोऽप्यधिकं त्वत्तः स्वीकारयिष्यति ।”

 अहं गृहं प्रत्यागमम् । रात्रेर्द्वितीयप्रहर आसीत् । तदानीमपि गृहे सर्वेऽपि विवाहप्रबन्धव्यग्रा जाग्रतिस्म । दैवज्ञैर्निर्णयः श्रावितः । निर्द्धारितायाः कन्यायाः पिताऽपि सूचित आसीत् । शीघ्रातिशीघ्रं प्रथमे मुहूर्त एव विवाहो भवत्विति सर्वेषां मनीषा ऽऽसीत् । मम महात्मनः सन्निधौ गमनम्, तत्र विचित्रदृश्यदर्शनमित्यादिकं किमपि गृहे कस्यापि न कथितम् । तस्मिन् दृश्ये दृष्टां तां तरुणीमेव चिन्तयन्नहं शयनार्थं पर्यङ्कमुपारुहम् । शनैः शनैर्निद्राऽधीनोऽभवम्।

( ४ )

 महति प्रत्यूष एव कस्यापि रटितमाकर्ण्य मम निद्रा भग्ना । “ललित ! ललित ! उतिष्ठ वत्स ! ” अहमुत्थाय पर्यङ्के समुपाविशम् । समीपे स्थितां जननीं चापश्यम् । मया पृष्टम्-“किमम्ब ! किमस्ति ?

 सा जगाद- “वत्स ! तन्त्रीसन्देशवाहकः समागतः, हस्ताक्षरं कृत्वा सन्देशपत्रं गृहाण। ”

 तन्त्रीसन्देशः ! कीदृशस्तन्त्रीसन्देशः ! कुतः समायातः ? केन प्रेषितः ? श्रुत्वैव सम्भ्रमे पतितं हृदयम्। आशङ्कया कृतमास्पदम् । सद्यो